भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.105

7.105.1

ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया ।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.105.2

ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् ।
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥

7.105.3

तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥

7.105.4

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः ।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥

7.105.5

अनेकवर्णा विविधा ध्वजाः परमशोभनाः । ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः ।
नानावर्णविराणाभिः शुशुभुः सर्वतो वृताः ॥

7.105.6

पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ।
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥

7.105.7

इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ।
दोधूयमाना रथिनां शोभयन्ति महारथान् ॥

7.105.8

सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः ।
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत ॥

7.105.9

स वानरध्वजो राजन्पताकाभिरलङ्कृतः ।
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥

7.105.10

तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत ।
ध्वजाघ्रं समपश्याम बालसूर्यसमप्रभम् ॥

7.105.11

काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ।
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम् ॥

7.105.12

हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः ।
आहवे खं महाराज ददृशे पूरयन्निव ॥

7.105.13

पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे ।
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥

7.105.14

आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः ।
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥

7.105.15

स तेन भ्राजते राजन्गोवृषेण महारथः ।
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता ॥

7.105.16

मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् ।
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन् ॥

7.105.17

तेन तस्य रथो भाति मयूरेण महात्मनः ।
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥

7.105.18

मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ।
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥

7.105.19

सा सीता भ्राजते तस्य रथमास्थाय मारिष ।
सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥

7.105.20

वराहः सिन्धुराजस्य राजतोऽभिविराजते ।
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः ॥

7.105.21

शुशुभे केतुना तेन राजतेन जयद्रथः ।
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥

7.105.22

सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ।
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥

7.105.23

स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते ।
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥

7.105.24

शलस्य तु महाराज राजतो द्विरदो महान् ।
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥

7.105.25

स केतुः शोभयामास सैन्यं ते भरतर्षभ ।
यथा श्वेतो महानागो देवराजचमूं तथा ॥

7.105.26

नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ।
किङ्किणीशतसंहादो भ्राजंश्चित्रो रथोत्तमे ॥

7.105.27

व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते ।
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥

7.105.28

नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ।
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः ॥

7.105.29

दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ।
अदीप्यतार्जुनो येन हिमवानिव शम्भुना ॥

7.105.30

ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ।
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥

7.105.31

तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः ।
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥

7.105.32

तवापराधाद्राजानो निहता बहुशो युधि ।
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥

7.105.33

तेषामासीद्व्यातिक्षेपो गजर्तामितरेतरम् ।
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥

7.105.34

तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः ।
यदेको बहुभिः सार्घं समागच्छदभीतवत् ॥

7.105.35

अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः ।
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम् ॥

7.105.36

तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः ।
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः ॥

7.105.37

ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ।
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥

7.105.38

संवृते नरसिंहैस्तु कूरूणामृषभेऽर्जुने ।
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc