भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.68

6.68.1

स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत ।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥

6.68.2

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥

6.68.3

भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह ।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥

6.68.4

देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च ॥

6.68.5

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥

6.68.6

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् ।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥

6.68.7

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्सम्भवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥

6.68.8

शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥

6.68.9

एवं त्वामभिजानन्ति तपसा भाविता नराः ।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥

6.68.10

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥

6.68.11

इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः ।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥

6.68.12

एष ते विस्तरस्तात सन्क्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥
सञ्जय उवाच ।

6.68.13

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।
केशवं बहुमेने स पाण्डवांश्च महारथान् ॥

6.68.14

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥

6.68.15

नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप ।
यदर्थं नृषु सम्भूतौ नरानारायणावृषी ॥

6.68.16

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥

6.68.17

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥

6.68.18

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि ॥

6.68.19

एवमुक्त्वा तव पिता तूष्णीमासीद्विशाम्पते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ॥

6.68.20

राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc