महाभारत · अध्याय 6.67
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥
भीष्म उवाच ।
वासुदेवो महद्भूतं सर्वदैवतदैवतम् ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः । नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ।
असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ।
सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ।
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वदेवमयो देवः शयानः शयने सुखम् ॥
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च ।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥
एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह ।
अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥
अग्रजं सर्वभूतानां सन्कर्षणमकल्पयत् ।
शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥
यो धारयति भूतानि धरां चेमां सपर्वताम् । ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम् ।
कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धैं समास्थितम् . हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता ।
ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥
तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदनमित्याहुरृषयश्च जनार्दनम् ॥
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् ।
एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ।
मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच ।
तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥
केशवः परमं तेजः सर्वलोकपितामहः ।
एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥
एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत । सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।
प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0