भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.66

6.66.1

ततः स भगवान्देवो लोकानामीश्वरेश्वरः ।
ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ॥

6.66.2

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् ।
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥

6.66.3

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः ।
कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥

6.66.4

कोन्वयं यो भगवता प्रणम्य विनयाद्विभो ।
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥

6.66.5

एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः ।
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥

6.66.6

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।
भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥

6.66.7

तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः . जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ।

6.66.8

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः ।
अस्रुराणां वधार्थाय सम्भवस्व महीतले ॥

6.66.9

सन्ग्रामे निहता ये ते दैत्यदानवराक्षसाः ।
त इमे नृषु सम्भूता घोररूपा महाबलाः ॥

6.66.10

तेषां वधार्थं भगवान्नरेण सहितो वशी ।
मानुषीं योनिमास्थाय चरिष्यति महीतले ॥

6.66.11

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
सहितो मानुषे लोके सम्भूतावमितद्युती ॥

6.66.12

अजेयौ समरे यत्तौ सहितैरमरैरपि ।
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥

6.66.13

तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः ।
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥

6.66.14

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥

6.66.15

एतत्परमकं गुह्यमेतत्परमकं पदम् ।
एतत्परमकं ब्रह्म एतत्परमकं यशः ॥

6.66.16

एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः ।
यत्तत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ॥

6.66.17

एतत्परमकं तेज एतत्परमकं सुखम् ।
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥

6.66.18

तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक ।
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥

6.66.19

यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः ।
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥

6.66.20

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।
अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ॥

6.66.21

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् ।
पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ॥

6.66.22

किरीटकौस्तुभधरं मित्राणामभयन्करम् ।
अवजानन्महात्मानं घोरे तमसि मञ्जति ॥

6.66.23

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः . वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ।
तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ॥
भीष्म उवाच ।

6.66.24

एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा ।
विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ॥

6.66.25

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च ।
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥

6.66.26

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् ।
वासुदेवं कथयतां समवाये पुरातनम् ॥

6.66.27

रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः ।
व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ॥

6.66.28

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् ।
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥

6.66.29

यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता ।
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥

6.66.30

वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः ।
मा गच्छ संयुगं तेन वासुदेवेन धन्विना ॥

6.66.31

मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे ।
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ॥

6.66.32

यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् ।
नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ॥

6.66.33

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।
सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥

6.66.34

यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः ।
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥

6.66.35

राजन्सर्वमयो ह्येष तमोरागविवर्जितः ।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥

6.66.36

तस्य माहात्म्ययोगेन योगेनात्ममयेन च ।
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥

6.66.37

श्रेयोयुक्तां सदा बुद्धिं पाण़्डवानां दधाति यः ।
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥

6.66.38

स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः ।
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥

6.66.39

ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ॥

6.66.40

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
सात्वतं विधिमास्थाय गीतः सन्कर्षणेन वै ॥

6.66.41

स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च ।
युगेयुगे मानुषं चैव वासं पुनःपुनः सृजते वासुदेवाःक ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc