भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.53

6.53.1

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः ।
उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥

6.53.2

दिष्टमेव परं मन्ये पौरुषादिति मे मतिः ।
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥

6.53.3

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् ।
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥
सञ्जय उवाच ।

6.53.4

श्रृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् ।
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥

6.53.5

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥

6.53.6

तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।
पीडयामास सन्क्रुद्धो धृष्टद्युम्नस्य मारिष ॥

6.53.7

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।
विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत् ॥

6.53.8

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् ।
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥

6.53.9

आददे च शरं घोरं पार्षतान्तचिकीर्षकया ।
शक्राशनिसमस्पर्शं कालदण्डमिवापरम् ॥

6.53.10

हाहाकारो महानासीत्सर्वसैन्येषु भारत ।
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ॥

6.53.11

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् ।
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥

6.53.12

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥

6.53.13

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह ।
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥

6.53.14

ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् ।
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥

6.53.15

तामापतन्तीं सहसा शक्तिं कनकभूषिताम् ।
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥

6.53.16

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतपवान् ।
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः ॥

6.53.17

शरवर्षं ततस्तत्तु सन्निवार्य महायशाः ।
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥

6.53.18

स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः ।
द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥

6.53.19

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥

6.53.20

लाघवाद्व्यंसयामास गदां हेमविभूषिताम् ।
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥

6.53.21

भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥

6.53.22

अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः ।
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥

6.53.23

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।
वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥

6.53.24

अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे ।
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥

6.53.25

अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः ।
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥

6.53.26

सारथिं चास्य भल्लेन रथनीजादपातयत् ।
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥

6.53.27

पातयामास समरे सिंहनादं ननाद च ।
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥

6.53.28

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवारोहत्स्व्यापयन्पौरुषं महत् ॥

6.53.29

तामस्य विशिस्वैस्तूर्णं पातयामास भारत ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥

6.53.30

ततः स विपुलं चर्म शतचन्द्रं च भानुमत् ।
खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥

6.53.31

अभिदुद्राव वेगेन द्रोणस्य वधाकाङ्क्षया ।
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥

6.53.32

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥

6.53.33

यदेनं शरवर्षेण वारयामास पार्षतम् ।
न शशाक ततो गन्तुं बलवानपि संयुगे ॥

6.53.34

निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः ।
न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥

6.53.35

ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली ।
साहाय्यकारी समरे पार्षतस्य महात्मनः ॥

6.53.36

स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः ।
पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा ॥

6.53.37

ततो दुर्योधनो राजन्कलिङ्गं समचोदयत् ।
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥

6.53.38

ततः सा महती सेन कलिङ्गानां जनेश्वर ।
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥

6.53.39

पाञ्चाल्यमथ सन्त्यज्य द्रोणोऽपि रथिनां वरः ।
विराटद्रुपदौ वृद्धौ वारयामास संयुगे ॥

6.53.40

धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात् ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥

6.53.41

कलिङ्गानां च समरे भीष्मस्य च महात्मनः ।
जगतः प्रक्षयकरं घोररूपं भयावहम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc