भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.52

6.52.1

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ॥
सञ्जय उवाच ।

6.52.2

तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः । तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु ।
अपारमिव सन्दृश्य सागरप्रतिमं बलम् ॥

6.52.3

तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥

6.52.4

ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥

6.52.5

ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥

6.52.6

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक ।
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥

6.52.7

तथा प्रवृत्ते सन्ग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥

6.52.8

सौभद्रे भीमसेने च सात्यकौ च महारथे ।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥

6.52.9

एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥

6.52.10

अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥

6.52.11

सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः ।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥

6.52.12

अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥

6.52.13

एष भीष्मः सुसन्क्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥

6.52.14

एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥

6.52.15

पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥

6.52.16

तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय ।
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥

6.52.17

एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥

6.52.18

चलद्बहुपातकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥

6.52.19

महता मेघनादेन रथेनामिततेजसा ।
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥

6.52.20

प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः ।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥

6.52.21

त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः . सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥

6.52.22

को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥

6.52.23

ततो भीष्मो महाराज सर्वलोकमहारथः ।
अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ॥

6.52.24

द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।
दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ॥

6.52.25

सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः ।
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥

6.52.26

स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥

6.52.27

स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥

6.52.28

शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः ।
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥

6.52.29

तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनञ्जयम् ॥

6.52.30

ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।
अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥

6.52.31

भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम् ।
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥

6.52.32

तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत् ।
प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥

6.52.33

तेषां महारथानां स मध्यं प्राप्य धनञ्जयः ।
चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ॥

6.52.34

क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः . शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ।

6.52.35

ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥

6.52.36

एष पाण्डुसुतस्तात कृष्णेन सहितो बली । यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥

6.52.37

त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशाम्पते । न युध्यति रणे पार्थान्हितकामः सदा मम ।
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥

6.52.38

एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।
धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ॥

6.52.39

उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ॥

6.52.40

द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥

6.52.41

तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् ।
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥

6.52.42

गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः ।
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥

6.52.43

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥

6.52.44

शरजालं ततस्तत्तु शरजालेन मारिष ।
वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥

6.52.45

उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥

6.52.46

भीष्मचापविमुक्तानि शरजालानि शङ्घशः ।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ॥

6.52.47

तथैवार्जुनमुक्तानि शरजालानि सर्वशः ।
गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥

6.52.48

अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः . भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः ।

6.52.49

अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥

6.52.50

ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥

6.52.51

भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः ।
विरराज रणे राजन्सपुष्प इव किंशुकः ॥

6.52.52

ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।
सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥

6.52.53

यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।
न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥

6.52.54

तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च ।
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥

6.52.55

अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् ।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥

6.52.56

उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः ।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥

6.52.57

तयोः शङ्खनिनादेन रथनेमिस्वनेन च ।
दारिता सहसा भूमिश्चकम्पे च ननाद च ॥

6.52.58

नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।
बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥

6.52.59

चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ॥

6.52.60

तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम् ।
विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥

6.52.61

न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥

6.52.62

उभौ च शरजालेन तावदृश्यो बभूवतुः ।
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥

6.52.63

तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह ।
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥

6.52.64

न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन ।
सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥

6.52.65

आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।
नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ॥

6.52.66

न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।
सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥

6.52.67

तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥

6.52.68

आलोकादपि युद्धं हि सममेतद्भविष्यति । इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः ।
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशाम्पते ॥

6.52.69

त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत ।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥

6.52.70

शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ॥

6.52.71

उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् . वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे ।
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc