भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.120

6.120.1

कथमासंस्तदा योधा हीना भीष्मेण सञ्जय ।
बलिना देवकल्पेन कौमारब्रह्मचारिणा ॥

6.120.2

तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः ।
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ॥

6.120.3

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।
अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ॥

6.120.4

अश्मसारमयं नूनं हृदयं मम सञ्जय ।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥

6.120.5

यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता ।
चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥

6.120.6

पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे ।
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ॥

6.120.7

स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना ।
सञ्जय उवाच ।
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ॥

6.120.8

पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः ।
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥

6.120.9

भीष्मो रथात्प्रपतितः सञ्छिन्नो बहुभिः शरैः ।
हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥

6.120.10

सीमावृक्षे निपतिते कुरूणां समितिञ्जये ।
सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ॥

6.120.11

भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ।
कुरवः पर्यवर्तन्त पाण्डवाश्च विशाम्पते ॥

6.120.12

खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः ।
ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥

6.120.13

अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा ।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥

6.120.14

अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा ।
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥

6.120.15

इति स्म शरतल्पस्थं भरतानां पितामहम् ।
ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥

6.120.16

हते शान्तनवे भीष्मे भरतानां पितामहे ।
न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥

6.120.17

विषण्णवदनाश्चासन्हतश्रीकाश्च भारत ।
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥

6.120.18

पाण्डवाश्च जयं लब्ध्वा सन्ग्रामशिरसि स्थिताः ।
सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ॥

6.120.19

हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ ।
अपश्याम महाराज भीमसेनं महाबलम् ॥

6.120.20

विक्रीडमानं कौन्तेयं हर्षेण महता युतम् ।
निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥

6.120.21

सम्मोहश्चापि तुमुलः कुरूणामभवत्ततः ।
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ॥

6.120.22

तथा निपातिते भीष्मे कौरवाणां पितामहे ।
हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ॥

6.120.23

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव ।
उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ॥

6.120.24

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः ।
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ॥

6.120.25

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् ।
दुःशासनं महाराज किमयं वक्ष्यतीति च ॥

6.120.26

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।
द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ॥

6.120.27

स सञ्ज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् ।
निवारयामास तदा स्वान्यनीकानि मारिष ॥

6.120.28

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् ।
रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ॥

6.120.29

निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः ।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥

6.120.30

व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥

6.120.31

ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥

6.120.32

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥

6.120.33

स्वागतं वो महाभागाः स्वागतं वो महारथाः ।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥

6.120.34

अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् . परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत ।
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥

6.120.35

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥

6.120.36

अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् ।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥

6.120.37

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥

6.120.38

धनञ्जय महाबाहो शिरो मे तात लम्बते ।
दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥
सञ्जय उवाच ।

6.120.39

समारोप्य महच्चापमभिवाद्य पितामहम् ।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥

6.120.40

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर ।
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥

6.120.41

तमब्रवीच्छान्तनवः शिरो मे तात लम्बते . 6-120-41ब्दीयतामुपधानं मे यद्युक्तमिह मन्यसे
उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ॥

6.120.42

वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे ।
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥

6.120.43

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः ।
फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परञ्जयः ॥

6.120.44

गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः ।
अनुमान्य महात्मानं भरतानां महारथम् ॥

6.120.45

त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ।
अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ॥

6.120.46

अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ।
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥

6.120.47

प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति ।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥

6.120.48

शयनस्यानुरूपं मे पाण्डवोपहितं त्वया ।
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ॥

6.120.49

एवमेव महाबाहो धर्मेषु परितिष्ठता ।
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥

6.120.50

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ॥

6.120.51

पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् ।
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ॥

6.120.52

ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः ।
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥

6.120.53

नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा ।
रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ॥

6.120.54

परिखाः खन्यतामत्र ममावसदने नृपाः . उपासिष्ये विवस्वन्तमेवं शरशताचितः ।
उपारमध्वं सन्ग्रामाद्वैरमुत्सृज्य पार्थिवाः ॥
स्̤अञ्जय उवाच ।

6.120.55

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः ।
सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ॥

6.120.56

तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव ।
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥

6.120.57

एवन्गते मयेदानीं वैद्यैः कार्यमिहास्ति किम् ।
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥

6.120.58

नैष धर्मो महीपालाः शरतल्पगतस्य मे ।
एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ॥

6.120.59

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव ।
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥

6.120.60

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥

6.120.61

उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः ।
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥

6.120.62

उपगम्य महात्मानं शयानं शयने शुभे ॥

6.120.63

तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम् ।
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥

6.120.64

वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥

6.120.65

निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् ।
भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ॥

6.120.66

उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् ।
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥

6.120.67

अवध्यो मानुषैरेव सत्यसन्धो महारथः ।
अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥

6.120.68

त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष ।
सञ्जय उवाच ।
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥

6.120.69

तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।
त्वं हि नः शरणं कृष्ण भक्तानामभयन्करः ॥

6.120.70

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥

6.120.71

सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ।
सञ्जय उवाच ।
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः ।
तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc