भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.119

6.119.1

एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥

6.119.2

शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥

6.119.3

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥

6.119.4

अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥

6.119.5

न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
सन्दीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥

6.119.6

नेमिनिर्ह्रादसन्तापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥

6.119.7

युगान्तागनिसमप्रख्यः परेषां समपद्यत ।
निवृत्य रथसङ्घानामन्तरेण विनिःसृतः ॥

6.119.8

दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥

6.119.9

पाण्डवानीकिनीमध्यमाससाद विशाम्पते ।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥

6.119.10

द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥

6.119.11

षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः ।
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥

6.119.12

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥

6.119.13

न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः ।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥

6.119.14

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥

6.119.15

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥

6.119.16

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥

6.119.17

अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥

6.119.18

उद्धूतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥

6.119.19

इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥

6.119.20

अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥

6.119.21

विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च सन्क्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥

6.119.22

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥

6.119.23

सन्ग्रमे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥

6.119.24

अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे ।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥

6.119.25

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् ।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥

6.119.26

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परन्तपः ॥

6.119.27

स च्छिन्नधन्वा सन्क्रुद्धाः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥

6.119.28

तां च चिक्षेप सन्क्रुद्धः फल्गुनस्य रथं प्रति ।
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव ॥

6.119.29

समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥

6.119.30

सन्क्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना सन्क्रुद्धेन किरीटिना ॥

6.119.31

मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा . छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ।

6.119.32

अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥

6.119.33

यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः . अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥

6.119.34

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥

6.119.35

स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥

6.119.36

एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥

6.119.37

यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥

6.119.38

अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥

6.119.39

देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः ।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥

6.119.40

न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः ।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥

6.119.41

सम्भ्रमश्च महानासीत्रिदशानां विशाम्पते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥

6.119.42

इति देवगणानां च वाक्यं श्रुत्वा महातपाः ।
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥

6.119.43

भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ॥

6.119.44

आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥

6.119.45

नाकम्पत महाराज क्षितिकम्पे यथाऽचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥

6.119.46

गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥

6.119.47

सर्वगात्रेषु सन्क्रुद्धस्तथा मर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥

6.119.48

तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥

6.119.49

निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥

6.119.50

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः ।
ततः किरीटी सन्क्रुद्धो भीष्ममेवाभ्यवर्तत ॥

6.119.51

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥

6.119.52

सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥

6.119.53

तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥

6.119.54

एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥

6.119.55

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥

6.119.56

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥

6.119.57

न चैष समरे शक्यो जेतुं वज्रभृता अपि ।
न चापि सहिता वीरा देवदानवराक्षसाः ॥

6.119.58

मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः . 6-119-58बृतेऽर्जुनं सुसन्क्रुद्धमेतत्सत्यं ब्रवीमि ते ॥

6.119.59

एवं तयोः संवदतोः फल्गुनो निशितैः शरैः ।
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥

6.119.60

ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् ।
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥

6.119.61

वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः ।
सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥

6.119.62

निकृन्तमाना मर्माणि दृढावरणभेदिनः ।
सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥

6.119.63

वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ।
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥

6.119.64

नाशयन्तीव मे प्राणान्यमदूता इवागताः ।
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥

6.119.65

भुजगा इव सन्क्रुद्धा लेलिहाना विषोल्बणाः ।
समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥

6.119.66

अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥

6.119.67

सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक ।
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥

6.119.68

इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् ।
शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥

6.119.69

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥

6.119.70

चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥

6.119.71

तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥

6.119.72

ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत् ।
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥

6.119.73

अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ।
पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥

6.119.74

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।
सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥

6.119.75

तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः ।
तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥

6.119.76

तत्रासीत्तुमुलं युद्धं तावकानां परैः सह ।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥

6.119.77

आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव ।
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥

6.119.78

असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा ।
समं च विषमं चैव न प्राज्ञायत किञ्चन ॥

6.119.79

योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥

6.119.80

ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः ।
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥

6.119.81

तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम् । द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥

6.119.82

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् ।
पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥

6.119.83

पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना ।
धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥

6.119.84

भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः । द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः ।
तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥

6.119.85

सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥

6.119.86

साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह । द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ।
सन्ग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥

6.119.87

ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥

6.119.88

निपातयत गृह्णीत युध्यध्वमवकृन्तत ।
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥

6.119.89

निहत्य समरे राजञ्शतशोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥

6.119.90

एवम्भूतस्तव पिता शरैर्विशकलीकृतः ।
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥

6.119.91

किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ॥

6.119.92

पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
सम्पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥

6.119.93

सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ॥

6.119.94

इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥

6.119.95

शलतल्पे महेष्वासं शयानं पुरुषर्षभम् ।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥

6.119.96

अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥

6.119.97

सञ्ज्ञां चोपालभद्वीरः कालं सञ्चिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥

6.119.98

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ॥

6.119.99

स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् ।
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥

6.119.100

उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया ।
तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥

6.119.101

महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ।
ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥

6.119.102

आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥

6.119.103

ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥

6.119.104

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥

6.119.105

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥

6.119.106

इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम् ।
सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥

6.119.107

तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥

6.119.108

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥

6.119.109

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥

6.119.110

तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥

6.119.111

छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे ।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥

6.119.112

इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥

6.119.113

पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्वे भरतानां पितामहे ॥

6.119.114

न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
सम्मोहश्चैव तुमुलः करूणामभवत्तदा ॥

6.119.115

कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥

6.119.116

दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥

6.119.117

अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि । दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।
अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥

6.119.118

हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥

6.119.119

पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥

6.119.120

सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥

6.119.121

आस्फोटयामास भृशं भीमसेनो ननाद च ।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥

6.119.122

सन्न्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥

6.119.123

क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन् ।
ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥

6.119.124

भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय विर्यवान् ॥

6.119.125

जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc