भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.8

5.8.1

शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥

5.8.2

तस्य सेनानिवेशोऽभूदध्वर्धमिव योजनम् ।
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥

5.8.3

अक्षौहिणीपती राजन्महावीर्यपराक्रमाः ।
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥

5.8.4

विचित्राभरणाः सर्वे विचित्ररथवाहनाः ।
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥

5.8.5

स्वदेशवेषाभरणा वीराः शतसहस्रशः ।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥

5.8.6

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥

5.8.7

ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥

5.8.8

कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥

5.8.9

शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः ।
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥

5.8.10

कूपाश्च विविधाकारा औदकानि गृहाणि च ॥ स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः ।

5.8.11

दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ॥ आजगाम सभामन्यां देवावसथवर्चसम् ।

5.8.12

स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ॥ मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् ।

5.8.13

पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ॥ युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः ।

5.8.14

आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम् । 5-8-15अ ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः ॥

5.8.16

सम्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥

5.8.17

तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति ॥
दुर्योधन उवाच ।

5.8.18

सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति ॥

5.8.19

यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम् ।
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो ॥
वैशम्पायन उवाच ।

5.8.20

कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः ॥
शल्य उवाच ।

5.8.21

गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ ।
अहं गमिष्ये द्रुष्टुं वै युधिष्ठिरमरिन्दमम् ॥

5.8.22

दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप ।
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥
दुर्योधन उवाच ।

5.8.23

क्षिप्रामागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव ।
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥
शल्य उवाच ।

5.8.24

क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप ।
दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे ॥
वैशम्पायन उवाच ।

5.8.25

पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ ॥

5.8.26

स तथा शल्यमामन्त्र्य पुरायात्स्वकं पुरम् ।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥

5.8.27

उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥

5.8.28

चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम् ।
आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः ॥

5.8.29

तथा भीमार्जुनौ हृष्टौ स्वस्त्रीयौ च यमावुभौ ।
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत ॥

5.8.30

समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा ॥

5.8.31

कताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत् ।
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् ॥

5.8.32

ततो न्यषीदच्छल्यश्च काञ्चने परमासने ।
तत्र पाद्यथार्घ्यं च न्यवेदयत पाण्डवः ॥
शल्य उवाच ।

5.8.33

दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप ॥

5.8.34

विदितं ते महाराज लोकतन्त्रं नराधिप ।
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते ॥
वैशम्पायन उवाच ।

5.8.35

निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत ।
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् ॥

5.8.36

स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः ।
आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत् ॥
शल्य उवाच ।

5.8.37

कुशलं राजशार्दूल सर्वत्र कुरुनन्दन ।
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥

5.8.38

दुष्करं ते कृतं राजन्निर्जने गहने वने ।
भ्रातृभिः सह कौन्तेय कृष्णाया चानयाऽनघ ॥

5.8.39

अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥

5.8.40

सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर ।
क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर ॥

5.8.41

अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः ।
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ॥

5.8.42

धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः ।
सर्वं जगदिदं तात विदितं ते परन्तप ॥

5.8.43

मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते ।
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ ॥

5.8.44

दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् ।
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो ॥
वैशम्पायन उवाच ।

5.8.45

ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥
युधिष्ठिर उवाच ।

5.8.46

सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥

5.8.47

एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ।
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥

5.8.48

मम त्ववेक्षया वीर शृणु विज्ञापयामि ते ।
भवानिह महाराज वासुदेवसमो युधि ॥

5.8.49

कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥

5.8.50

तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्यः सौतेरस्मञ्जयावह्नः ।
अकर्तव्यमपि ह्येतत्कर्मुमर्हसि मातुल ॥
शल्य उवाच ।

5.8.51

श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥

5.8.52

अहं तस्य भविष्यामि सङ्घ्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां सोऽभिमन्यतो ॥

5.8.53

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं सन्कथयिष्यामि योद्धुकामस्य संयुगे ॥

5.8.54

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥

5.8.55

एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् ।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥

5.8.56

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥

5.8.57

जटासुरात्परिक्लेशः कीचकाच्च महाद्युते ।
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥

5.8.58

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥

5.8.59

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥

5.8.60

इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc