भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.7

5.7.1

पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् ।
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः ॥

5.7.2

प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः ।
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः ॥

5.7.3

गते द्वारवतीं कृष्ण बलदेवे च माधवे ।
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा ॥

5.7.4

सर्वमागमयामास पाण्डवानां विचेष्टितम् ।
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः ॥

5.7.5

स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः ।
बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥

5.7.6

तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।
आनन्रतनगरीं रम्यां जगामाशु धनञ्जयः ॥

5.7.7

तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः ॥

5.7.8

दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत् ।
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥

5.7.9

ततः किरीटी तस्यानु प्रविवेश महामनाः ।
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥

5.7.10

प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनाम् ।
सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् ॥

5.7.11

स तयोः स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ ।
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥

5.7.12

ततो दुर्योधनः कृष्णामुवाच प्रहसन्निव ।
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥

5.7.13

समं हि भवतः सख्यं मम चैवार्जुनेऽपि च ।
तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव ॥

5.7.14

अहं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥ त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन ।

5.7.15

सततं सम्मतश्चैव सद्वृत्तमनुपालय ॥
कृष्ण उवाच ।

5.7.16

भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।
दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ॥

5.7.17

तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥

5.7.18

प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ।
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ॥

5.7.19

मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
नारायणा इति ख्याताः सर्वे सन्ग्रामयोधिनः ॥

5.7.20

ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।
अयुध्यमानः सन्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥

5.7.21

आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥

5.7.22

एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः . तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः
वैशम्पायन उवाच ।

5.7.23

एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः ।
अयुध्यमानं सन्ग्रामे वरयामास केशवम् ॥

5.7.24

नारायणममिघ्नं कामाज्जातमजं नृषु ।
सर्वक्षत्रस्य पुरतो देवदानवयोरपि ॥

5.7.25

दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा ।
सहस्राणां महस्रं तु योधानां प्राप्य भारत ॥

5.7.26

कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् ।
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ॥

5.7.27

ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् . सर्वं चागमने हेतुं स तस्मै सन्न्यवेदयत् ।
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥
बलदेव उवाच ।

5.7.28

विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥

5.7.29

निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।
मया सम्बन्धकं तुल्यमिति राजन्पुनःपुनः ॥

5.7.30

न च तद्वाक्यमुक्तं वै केशवं प्रत्यपद्यत ।
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥

5.7.31

नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै ।
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह ॥

5.7.32

जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ ॥
वैशम्पायन उवाच ।

5.7.33

इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम् ।
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ ॥

5.7.34

सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥

5.7.35

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।
वृतः परिययौ हृष्टः सुहृदः सम्प्रहर्षयन् ॥

5.7.36

ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः ।
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ॥

5.7.37

अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया ।
अर्जुन उवाच ।
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।
निहन्तुमहमष्येकः समर्थः पुरुषर्षभः ॥

5.7.38

भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति ।
यशसां चाहमप्यर्थी तस्मादसि मया वृतः ॥

5.7.39

सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥
वासुदेव उवाच ।

5.7.40

उपपन्नमिदं पार्थ यत्स्पर्धसि मया सह ।
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ॥
वैशम्पायन उवाच ।

5.7.41

एवं प्रमुदितः पार्थः कुष्णेन सहितस्तदा ।
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc