महाभारत · अध्याय 5.69
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः ।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥
सञ्जय उवाच ।
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम् ।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः ।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम् ।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः ।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ॥
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते ।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥
न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः ।
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः । असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ॥
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ॥
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते ।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ॥
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥
एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0