महाभारत · अध्याय 5.70
चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे ।
विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च ॥
ईरयन्तं भारतीं भारताना- मभ्यर्चनीयां शङ्करीं सृञ्जयानाम् ।
बुभूषद्भिर्गर्हणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् ॥
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् ।
निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि ॥
द्रष्टारो हि कुरवस्तं समेता महात्मानं शब्रुहणं वरेण्यम् ।
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥
ऋषिं सनातनतभं विपश्चितं वाचःसमुद्रं कलशं यतीनाम् ।
अरिष्टनेमिं गरुडं सुपर्णं हरिं प्रजानां भुवनस्य धाम ॥
सहस्रशीर्षं पुरुषं पुराण- मनादिमध्यान्तमनन्तकीर्तिम् ।
शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये ॥
त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् ।
नराधिपानां विदुषां प्रधान- मिन्द्रानुजं तं शरणं प्रपद्ये ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0