भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.51

5.51.1

सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥

5.51.2

भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् ।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥

5.51.3

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।
भीतो वृकोदरात्तात सिंहात्पशुरिवापरः ॥

5.51.4

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥

5.51.5

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥

5.51.6

महावेगो महोत्साहो महाबाहुर्महाबलः ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥

5.51.7

उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥

5.51.8

अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् ।
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥

5.51.9

यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत् ।
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥

5.51.10

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा ॥

5.51.11

उद्वेपते मे हृदयं ये मे दुर्योधनादयः ।
बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः ॥

5.51.12

तस्य वीर्येण सन्क्लिष्टा नित्यमेव सुता मम ।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥

5.51.13

ग्रसमानमनीकानि नरवारणवाजिनाम् ।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥

5.51.14

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ॥

5.51.15

सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् . 5-51-15ब् ॥ येऽहं यत्तेन रिपुघातिना ।
॥ . सर्वे पुत्राः मम मनस्विना ॥

5.51.16

येन भीमबला यक्षा राक्षसाश्च पुरा हताः ।
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥

5.51.17

न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय ।
किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ॥

5.51.18

निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न सन्नमेत् ।
तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः ॥

5.51.19

शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः ।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥

5.51.20

जवेन वाजिनोऽत्येति बलेनान्त्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥

5.51.21

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा ।
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥

5.51.22

आयसेन स दण्डेन रथन्नागान्नरान्हयान् ।
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ॥

5.51.23

अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः ।
मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥

5.51.24

निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः ॥

5.51.25

अपारमप्लवागाधं समुद्रं शरवेधनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥

5.51.26

क्रोशतो मे न श्रृण्वन्ति बालाः पण्डितमानिनः ।
विषमं न हि मन्यन्ते प्रापतं मधुदर्शिनः ॥

5.51.27

संयुगे ये गमिष्यन्ति नररूपेण मृत्युना ।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥

5.51.28

शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम् ।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥

5.51.29

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥

5.51.30

उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान् ।
प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः ॥

5.51.31

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥

5.51.32

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥

5.51.33

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् ।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥

5.51.34

कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् ।
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥

5.51.35

गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् ।
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ॥

5.51.36

वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥

5.51.37

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा ।
वासुदेवसहायेन जरासन्धो निपातितः ॥

5.51.38

कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता ।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥

5.51.39

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ॥

5.51.40

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥

5.51.41

दीर्घकालसमासक्तं विशमाशीविषो यथा ।
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥

5.51.42

महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥

5.51.43

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥

5.51.44

अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥

5.51.45

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।
जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः ॥

5.51.46

आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥

5.51.47

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥

5.51.48

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः ।
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥

5.51.49

यथैषां मामकास्तात तथैषां पाण्डवा अपि ।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥

5.51.50

ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय ।
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥

5.51.51

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।
निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम् ॥

5.51.52

स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः ।
विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम् ॥

5.51.53

न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय ।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ॥

5.51.54

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् ।
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥

5.51.55

किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा ।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥

5.51.56

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम् ।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन् ॥

5.51.57

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् ।
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥

5.51.58

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥

5.51.59

किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥

5.51.60

अवशोऽहं तदा तात पुत्राणां निहते शते ।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥

5.51.61

यथा निदाघे ज्वलनः समद्धो दहेत्कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान्सहितोऽर्जुनेन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc