भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.50

5.50.1

किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः ॥

5.50.2

किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः ।
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम् ॥

5.50.3

के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः ।
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥
सञ्जय उवाच ।

5.50.4

राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥

5.50.5

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥

5.50.6

नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम् ॥

5.50.7

आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् ।
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम् ॥

5.50.8

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् ॥
धृतराष्ट्र उवाच ।

5.50.9

सञ्जयाचक्ष्व येनास्मान्पाडवा अभ्ययुञ्जत ।
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च ॥
वैशम्पायन उवाच ।

5.50.10

गवल्गणिस्तु तत्पुष्टः सभायां कुरुसंसदि ।
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥

5.50.11

तत्रानिमित्ततो वैवात्सुतं कश्मलमाविशत् ।
तदाचचक्षे विदुरः सभायां राजसंसदि ॥

5.50.12

सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि ।
वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः ॥
धृतराष्ट्र उवाच ।

5.50.13

अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् ।
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥
वैशम्पायन उवाच ।

5.50.14

सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत् ।
धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥
सञ्जय उवाच ।

5.50.15

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।
मत्स्यराजगृहावासनिरोधेनावकर्शितान् ॥

5.50.16

श्रृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ।
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत ॥

5.50.17

यो नैव रोपान्न भयान्न लोभान्नार्थकारणात् ।
न हेतुवादाद्धर्मात्मा सत्यं जाह्यात्कदाचन ॥

5.50.18

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥

5.50.19

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन । यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ।
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ॥

5.50.20

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ।
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः ॥

5.50.21

निःसृत्य जतुगेहाद्वै हिडिम्बात्पुरुषादकात् ।
यश्चैपामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥

5.50.22

याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान् ।
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥

5.50.23

यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते ।
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥

5.50.24

कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः ।
प्रविश्य विषयं घोरं पर्वतं गन्धमादनम् ॥

5.50.25

यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् ।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥

5.50.26

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् ॥

5.50.27

यः स साक्षान्महादेवं गिरिशं शृलपाणिनम् ।
तोपयामास युद्धेन देवदेवमुपामपिम् ॥

5.50.28

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥

5.50.29

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥

5.50.30

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥

5.50.31

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥

5.50.32

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च ॥

5.50.33

तेन वः सहदेवेन युद्धं राजन्महात्ययमअ ।
यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥

5.50.34

तपश्चचार या घोरं काशिकन्या पुरा सती ।
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥

5.50.35

पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।
स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥

5.50.36

॥ कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः ।
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥

5.50.37

यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया ।
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥

5.50.38

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।
आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥

5.50.39

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥

5.50.40

य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।
रणे तेन विराटेन भविता वः समागमः ॥

5.50.41

यः स काशिपती राजा वाराणस्यां महारथः ।
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥

5.50.42

शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत ॥

5.50.43

यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे ।
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥

5.50.44

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥

5.50.45

तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ।
अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः ॥

5.50.46

यः संश्रयः पाण्डवानां देवानामिव वासवः ।
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥

5.50.47

यथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥

5.50.48

तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ ॥

5.50.49

द्रुपदश्च महातेजा बलेन महता वृतः ।
त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः ॥

5.50.50

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।
शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc