भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.1

5.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
वैशम्पायन उवाच ।

5.1.1

कृत्वा विवाहं तु कुरुप्रवीरा- स्तदाऽभिमन्योर्मुदिताः सपक्षाः ।
विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥

5.1.2

सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥

5.1.3

अथासनान्याविशतां पुरस्ता- दुभौ विराटद्रुपदौ नरेन्द्रौ ।
वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं तमजनार्दनौ च ॥

5.1.4

पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥

5.1.5

सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च ।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः ॥

5.1.6

सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव ।
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥

5.1.7

तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥

5.1.8

ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥

5.1.9

कथान्तमासाद्य च माधवेन सन्घट्टिताः पाण्डवकार्यहेतोः ।
ते राजसिंहाः सहिता ह्यश्रृण्व- न्वाक्यं महार्थं सुमहोदयं च ॥
श्रीकृष्ण उवाच ।

5.1.10

सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरः सौबलेनाक्षवत्याम् ।
जितो निकृत्याऽपहृतं च राज्यं वनप्रवासे समयः कृतश्च ॥

5.1.11

शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत् ।
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥

5.1.12

त्रयोदशश्चैव सुदुस्तरोऽय- मज्ञायमानैर्भवतां समीपे ।
क्लेशानसह्यान्विविधान्सहद्भि- र्महात्मभिश्चापि वने निविष्टम् । एतैः परप्रेष्यनियोगयुक्तै- रिच्छद्भिराप्तं स्वकुलेन राज्यम् ॥

5.1.13

एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् ।
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥

5.1.14

अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः ।
धर्मार्थयुक्तं तु महीपतित्वं ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत् ॥

5.1.15

पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः ।
मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥

5.1.16

न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः ।
तथाऽपि राजा सहितः सुहृद्भि- रभीप्सतेऽनामयमेव तेषाम् ॥

5.1.17

यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्प्रपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥

5.1.18

बलाभियुक्तैर्विविधैरुपायैः सम्प्रार्थिता हन्तुममित्रसङ्घैः ।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥

5.1.19

तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य ।
सम्बन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व ।

5.1.20

इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत् ।
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥

5.1.21

तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान्परिवारयेयुः ।
युद्धेन बाधेयुरिमांस्तथैवं तैर्बाध्यमाना युधि तांश्च हन्युः ॥

5.1.22

तथाऽपि नेमेऽल्पतयाऽसमर्था- स्तेषां जयायेति भवेन्मतिर्वः ।
समेत्य सर्वे सहिताः सुहृद्भि- स्तेषां विनाशाय यतेयुरेव ॥

5.1.23

दुर्योधनस्यापि मतं यथाव- न्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य मन्त्रस्य पारं कथमभ्युपेमः ॥

5.1.24

तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः ।
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥

5.1.25

निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च ।
समाददे वाक्यमथाग्रजोऽस्य सम्पूज्य वाक्यं तदतीव राजन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc