भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.78

4.78.1

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ॥

4.78.2

दूतान्मित्रेषु सर्वेषु ज्ञातिसम्बन्धिकेष्वपि ।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥

4.78.3

तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः ।
तत्रागमन्महाबाहुर्वनमाली बलानुजः ॥

4.78.4

तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः । दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् ।
अभिमन्युं समादाय रामेण सहितस्तदा ॥

4.78.5

सर्वयादवमुख्यैश्च संवृतः परवीरहा ।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ॥

4.78.6

कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः । अनाधृष्टिस्तथाऽक्रूरः साम्बो निशठ एव च ।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ॥

4.78.7

अभिमन्युमुपादाय सह मात्रा परन्तपाः ।
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ॥

4.78.8

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ॥

4.78.9

दशनागसहस्राणि हयानां द्विगुणं तथा ।
रथानां नियुतं पूर्णं निखर्वं च पदातयः ॥

4.78.10

वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः ।
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ॥

4.78.11

वासुदेवं तथाऽयान्तं श्रुत्वा पाण्डुसुतास्तदा ।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ॥

4.78.12

शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् . ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः ।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ॥
पाण्डवा ऊचुः ।

4.78.13

तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः ।
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ॥

4.78.14

उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन ।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ॥
वैशम्पायन उवाच ।

4.78.15

तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः ।
विराटस्य सहायांस्तान्सर्वयादवसंवृतः ॥

4.78.16

यथार्हं पूजयामास मुदा परमया युतः ।
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ॥

4.78.17

कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा । तामुद्यम्य सुकेशान्तां नयने परिमृज्य च ।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ॥

4.78.18

मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् ।
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ॥

4.78.19

युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः ।
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ॥

4.78.20

सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते । इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् ।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ॥

4.78.21

काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् ।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥

4.78.22

अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः ।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥

4.78.23

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः ।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ॥

4.78.24

ततः शतसहस्राणि प्रयुतान्यर्बुदानि च ।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् ॥

4.78.25

समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् । आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः ।
वेदावभृथसम्पन्नाः शूराः सर्वे तनुत्यजः ॥

4.78.26

तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः ।
पूजयामास विधिवद्यथार्हं राजसत्तमान् ॥

4.78.27

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ॥

4.78.28

राजानो राजपुत्राश्च निवृत्ते समये तथा । यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः ।
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ॥

4.78.29

सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह ।
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः ॥

4.78.30

ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा ।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ॥

4.78.31

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा ।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ॥

4.78.32

गायनाख्यानशीलाश्च नटा वैतालिकास्तथा ।
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥

4.78.33

स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले ।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ॥

4.78.34

सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः ।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥

4.78.35

वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलन्कृताः ।
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ॥

4.78.36

परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलन्कृताम् ।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥

4.78.37

भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् । पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम् ।
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ॥

4.78.38

तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः ।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ॥

4.78.39

तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन् ।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ॥

4.78.40

द्रुपदश्च विराटश्च शिखण्डी च महाबलः ।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ॥

4.78.41

सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ॥

4.78.42

तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः ।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ॥

4.78.43

प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥

4.78.44

ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः ।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ॥

4.78.45

धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः ।
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ॥

4.78.46

ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् ।
तस्मै शतसहस्राणि हयानां वातरंहसाम् ॥

4.78.47

द्वे च नागशते मुख्ये धनं बहुविधं तदा ।
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ॥

4.78.48

पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः ।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ॥

4.78.49

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥

4.78.50

गोसहस्राणि वस्त्राणि रत्नानि विविधानि च ।
भूषणानि च सर्वाणि यानानि शयनानि च ॥

4.78.51

नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ॥

4.78.52

तन्महोत्सवसन्काशं हृष्टपुष्टजनाकुलम् ।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥

4.78.53

पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह । विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे ।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ॥
जनमेजय उवाच ।

4.78.54

वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः ।
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc