भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.61

4.61.1

एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः । आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः ।

4.61.2

अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥

4.61.3

तौ वीर सूर्यसन्काशौ योत्स्यमानौ महारथौ ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥

4.61.4

श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः ।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥

4.61.5

कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥

4.61.6

प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् ।
कृपः पार्थाय चिक्षेप शन्तशोऽथ सहस्रशः ॥

4.61.7

जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥

4.61.8

विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः ।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥

4.61.9

सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥

4.61.10

प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥

4.61.11

स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलम्म् ॥

4.61.12

ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥

4.61.13

ततः कनकपुङ्खेन शरेण नतपर्वणा ।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥

4.61.14

ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥

4.61.15

तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥

4.61.16

चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद ।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥

4.61.17

सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च ।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥

4.61.18

तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥

4.61.19

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥

4.61.20

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥

4.61.21

छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥

4.61.22

स छिन्नधन्वा विरथो हताश्वो हतसारथिः . अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥

4.61.23

तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् ।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥

4.61.24

आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥

4.61.25

शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः । गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा ।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥

4.61.26

सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥

4.61.27

अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत् ।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥

4.61.28

स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥

4.61.29

ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥

4.61.30

विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः ।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥

4.61.31

भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः । अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे ।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥

4.61.32

एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् ।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥

4.61.33

एकैकमस्मान्सन्ग्रामे पराजयति फल्गुनः । अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च ।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥

4.61.34

समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः ।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥

4.61.35

स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥

4.61.36

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥

4.61.37

नागाश्वकायान्निर्भिद्य लौहानि कवचानि च ।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥

4.61.38

त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते ।
मध्यन्दिनगतोऽर्चिष्माञ्छरदीव दिवाकरः ॥

4.61.39

अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे । उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥

4.61.40

शरैस्तु ताड्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ॥

4.61.41

छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् ।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् ॥

4.61.42

शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् ।
प्रनृत्यन्निव सन्ग्रामे चापहस्ते धनञ्जयः ॥

4.61.43

शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः । श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने ।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश ॥

4.61.44

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥

4.61.45

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥

4.61.46

शिरसां पात्यमानानां समरे निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥

4.61.47

दर्शयित्वा तदाऽत्मानं रौद्रं रौद्रपराक्रमः ।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥

4.61.48

तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥

4.61.49

तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् ।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥

4.61.50

यथा नलवनं नागः प्रभिन्नः षष्टिहायनः ।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥

4.61.51

विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् ।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥

4.61.52

तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥

4.61.53

अस्थिशैवालसम्बाधां सन्ग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥

4.61.54

रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् ।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥

4.61.55

अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् ।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥

4.61.56

सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥

4.61.57

पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् ।
गोमायुगसन्घुष्टां मांसमञ्जाभिकर्दमाम् ॥

4.61.58

प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥

4.61.59

अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् ।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥

4.61.60

पदातिदेहसन्घाटां रथावलिमहातरुम् ।
केशशाद्वलसञ्छन्नां सुतरां भीतिदां नृणाम् ॥

4.61.61

अगाधरक्तोदवहां यमसागरगामिनीम् । दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप ।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥

4.61.62

तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः ।
विकर्षतश्च गाण्डीवं न किञ्चिद्ददृशेऽन्तरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc