भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.60

4.60.1

तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः ।
शरजालेन महता वर्षमाण इवाम्बुदः ॥

4.60.2

तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥

4.60.3

न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥

4.60.4

महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥

4.60.5

हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं काञ्चन मोहिताः ॥

4.60.6

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥

4.60.7

तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनञ्जयम् ॥

4.60.8

ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः . पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः ।

4.60.9

ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा ।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥

4.60.10

तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥

4.60.11

ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः . चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ॥

4.60.12

सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः ।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥

4.60.13

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥

4.60.14

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः ।
युध्यमानौ महात्मानौ द्विरदाविव सन्गतौ ॥

4.60.15

तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥

4.60.16

अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः ।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥

4.60.17

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे ।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc