भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.52

4.52.1

कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च ।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥

4.52.2

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि ।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥

4.52.3

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् ।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥

4.52.4

एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥

4.52.5

पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥

4.52.6

सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् ।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥

4.52.7

सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः ।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥

4.52.8

कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥

4.52.9

अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् ।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥

4.52.10

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥

4.52.11

यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथञ्चन ॥

4.52.12

प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥

4.52.13

प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥

4.52.14

तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥

4.52.15

न हि पश्यामि सन्ग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥

4.52.16

सम्प्रवृत्ते तु सन्ग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥

4.52.17

तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥

4.52.18

एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः . भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे ।
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ॥
दुर्योधन उवाच ।

4.52.19

नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह । ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥
वैशम्पायन उवाच ।

4.52.20

भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च ।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ॥

4.52.21

यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम् ।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥

4.52.22

अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥

4.52.23

राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु . ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥

4.52.24

अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा ।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥

4.52.25

एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति . मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥
वैशम्पायन उवाच ।

4.52.26

तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥

4.52.27

भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं सम्प्रचक्रमे ॥

4.52.28

द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् । आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः ।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥

4.52.29

विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः । शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥

4.52.30

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः ।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥

4.52.31

सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥
वैशम्पायन उवाच ।

4.52.32

अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥

4.52.33

तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc