भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.51

4.51.1

ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥

4.51.2

साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥

4.51.3

कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति । आचार्यो नावमन्तव्यः पुरुषेण विजानता ।
देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ॥

4.51.4

यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः ।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥

4.51.5

स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥

4.51.6

धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥
वैशम्पायन उवाच ।

4.51.7

एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह ।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥

4.51.8

कर्णो हि यदवोचत्त्वां तेजस्सञ्जननाय तत् ।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥

4.51.9

नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥

4.51.10

भवतां हि कृतास्त्रत्वं यथाऽदित्ये प्रभा तथा . यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥

4.51.11

चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते । नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम ।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥

4.51.12

वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥

4.51.13

ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥

4.51.14

आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥

4.51.15

बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ॥
अश्वत्थामोवाच ।

4.51.16

नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किन्तु रोषपरीतेन गुरुणा भाषिता गुणाः ॥

4.51.17

शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥

4.51.18

आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥
वैशम्पायन उवाच ।

4.51.19

ततो दुर्योधनो द्रोणं क्षमयामास भारत ।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥
द्रोण उवाच ।

4.51.20

यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥

4.51.21

यथा दुर्योधनं पार्थो नोपसर्पति सन्गरे ।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥

4.51.22

वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥

4.51.23

यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथञ्चन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥

4.51.24

उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc