भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.48

4.48.1

सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये ।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥

4.48.2

यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरन्दरः . वासुदेवेन सहितो यदि बीभत्सुरागतः ।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥

4.48.3

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया ।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥

4.48.4

मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥

4.48.5

शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥

4.48.6

एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम् ।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥

4.48.7

मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव सम्पृक्तमन्तरिक्षं विराजताम् ॥

4.48.8

ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥

4.48.9

शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥

4.48.10

क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं सन्ग्रामशिरसि पार्थमेकाकिनं किमु ॥

4.48.11

समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि सन्दर्शयिष्यति ॥

4.48.12

पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥

4.48.13

एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥

4.48.14

मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥

4.48.15

इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥

4.48.16

अन्तरा सम्पतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया सम्प्रति दृश्यताम् ॥

4.48.17

अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः ।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥

4.48.18

बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥

4.48.19

अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥

4.48.20

इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् ।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥

4.48.21

शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥

4.48.22

रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥

4.48.23

क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
सम्मूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥

4.48.24

अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥

4.48.25

अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः । हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥

4.48.26

जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात् ।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥

4.48.27

ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥

4.48.28

कामं गच्छन्तु कुरवो गाः प्रगृह्य परन्तपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc