भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.47

4.47.1

ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् ।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥

4.47.2

उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् ।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥

4.47.3

पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥

4.47.4

तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः ॥

4.47.5

अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥

4.47.6

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् ।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥

4.47.7

अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥

4.47.8

उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किन्तु कृत्यमतः परम् ॥

4.47.9

त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ॥

4.47.10

तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥

4.47.11

प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् ।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥

4.47.12

नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति ।
इमा गावो ग्रहीतव्या याते मत्स्ये गवाम्पदम् ॥

4.47.13

इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥

4.47.14

ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः ।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन सन्गतिम् ॥

4.47.15

अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥

4.47.16

तेषामेको महावीर्यः कश्चिदेव पुनःसरः ।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥

4.47.17

यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥

4.47.18

अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः . भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च ।
सम्भ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥

4.47.19

नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥

4.47.20

अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा ।
यमेन वाऽपि सन्ग्रामे को हास्तिनपुरं व्रजेत् ॥

4.47.21

शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥

4.47.22

आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः ॥

4.47.23

अर्जुने चापि सम्प्रीतिमधिकामुपलक्षये . तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥

4.47.24

अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता ।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥

4.47.25

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥

4.47.26

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥

4.47.27

भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् ।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥

4.47.28

यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥

4.47.29

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥

4.47.30

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे सम्प्रष्टव्याः कथञ्चन ॥

4.47.31

प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च ।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ॥

4.47.32

बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसन्धाने पण्डितास्तत्र शोभनाः ॥

4.47.33

परेषां विवरज्ञाने मनुष्याचरितेषु च ।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥

4.47.34

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥

4.47.35

गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् ।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc