महाभारत · अध्याय 4.37
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति ।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ 1 ॥
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ 2 ॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ 3 ॥
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4 ॥
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ 5 ॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्सम्प्रहारे भयन्करे ॥ 6 ॥
गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः ।
जगाम नगरायैव परिक्रोशंस्तदाऽर्तवत् ॥ 7 ॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः ।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8 ॥
दृष्ट्वा भूमिञ्जयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9 ॥
गवां शतसहस्राणि कुरबः कालयन्ति ते ।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ 10 ॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11 ॥
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12 ॥
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः ।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ 13 ॥
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ 14 ॥
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा ।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ 15 ॥
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः सन्नतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 16 ॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 17 ॥
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते . श्वेताः काञ्चनसन्नाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ 18 ॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ 19 ॥
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ 20 ॥
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः ।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 21 ॥
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ 22 ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0