भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.36

4.36.1

ततो विराटः कौन्तेयानतिमानुषविक्रमान् । अर्चयामास वित्तेन मानेन च महारथान् ।
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ॥ 1 ॥
विराट उवाच ।

4.36.2

यथैव मम रत्नानि युष्माकं तानि वै तथा ।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ॥ 2 ॥

4.36.3

ददाम्यलन्कृताः कन्या वसूनि विविधानि च ।
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ 3 ॥

4.36.4

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ 4 ॥
वैशम्पायन उवाच ।

4.36.5

तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् ।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ॥ 5 ॥

4.36.6

प्रतिनन्दामहे वाचं सर्वथैव विशाम्पते ।
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ॥ 6 ॥

4.36.7

यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः ।
न किञ्चित्कार्यमस्माकं न धनं मृगयामहे ॥ 7 ॥

4.36.8

अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् ।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ॥ 8 ॥

4.36.9

पुनरेव महाबाहुर्विराटो राजसत्तमः ।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ॥ 9 ॥

4.36.10

मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण ।
तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥ 10 ॥

4.36.11

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा ।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ॥ 11 ॥

4.36.12

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च ।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ 12 ॥

4.36.13

ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः ।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ॥ 13 ॥

4.36.14

आनृशंस्यपरो नित्यं सुमुखः सततं भवान् ।
पुनरेव विराटश्च राजा कङ्कमभाषत ॥ 14 ॥

4.36.15

अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम ।
सोहं शूद्रेण सन्ग्रामे वललेनाभिरक्षितः ॥ 15 ॥

4.36.16

त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ॥ 16 ॥

4.36.17

ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् ।
शयनासनयानानि कन्याश्च समलन्कुताः ॥ 17 ॥

4.36.18

हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च ।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ॥ 18 ॥
वैशम्पायन उवाच ।

4.36.19

तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत ।
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ॥ 19 ॥

4.36.20

प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परन्तप ।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ॥ 20 ॥

4.36.21

सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् ।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ॥ 21 ॥
वैशम्पायन उवाच ।

4.36.22

एवमुक्ते तु कङ्केन विराटो राजसत्तमः ।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ॥ 22 ॥
कङ्ख उवाच ।

4.36.23

गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव ।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ 23 ॥

4.36.24

ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् ।
आचक्षध्वं पुरं सत्वा सन्ग्रामे विजयं मम ॥ 24 ॥

4.36.25

कुमार्यः समलन्कृत्य प्रयागच्छन्तु मे पुरात् . वादित्राणि च सर्वाणि गणिकाश्च स्वलन्कृताः ।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ॥ 25 ॥

4.36.26

एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् ।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ॥ 26 ॥

4.36.27

नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते । विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् ।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ॥ 27 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc