भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.17

4.17.1

एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ 1 ॥

4.17.2

अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे ।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ 2 ॥

4.17.3

परदाराऽस्मि भद्रं ते न युक्तं तव साम्प्रतम् ।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ 3 ॥

4.17.4

परदारे न ते बुद्धिर्जातु कार्या कथञ्चन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ 4 ॥

4.17.5

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ॥ 5 ॥
वैशम्पायन उवाच ।

4.17.6

एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः ।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ 6 ॥

4.17.7

दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ 7 ॥

4.17.8

नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ 8 ॥

4.17.9

प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ 9 ॥

4.17.10

अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ 10 ॥

4.17.11

पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ 11 ॥

4.17.12

सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह ।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ 12 ॥

4.17.13

मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने ।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ॥ 13 ॥

4.17.14

एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः ।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ 14 ॥
सैरन्ध्र्युवाच ।

4.17.15

मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् ।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ 15 ॥

4.17.16

न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम ।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ 16 ॥

4.17.17

अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ 17 ॥

4.17.18

यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ 18 ॥

4.17.19

अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि ।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ 19 ॥

4.17.20

त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक ।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ 20 ॥

4.17.21

तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति ।
न वर्तते कीचक ते दृशा शुभं या तेन सञ्जीवनमर्थयेत सा ॥ 21 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc