भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 4.16

4.16.1

वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा ।
महारथेषु च्छन्नेषु मासा दश समाययुः ॥ 1 ॥

4.16.2

याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशाम्पते ।
आवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 2 ॥

4.16.3

तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने ।
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ॥ 3 ॥

4.16.4

तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः ।
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥ 4 ॥

4.16.5

तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ॥ 5 ॥

4.16.6

स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै ।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ 6 ॥

4.16.7

नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा ।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ 7 ॥

4.16.8

का देवरूपा हृदयन्गमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने ।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ॥ 8 ॥

4.16.9

अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् ।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किञ्चन ॥ 9 ॥

4.16.10

प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम् ।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ 10 ॥

4.16.11

ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् ।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ 11 ॥

4.16.12

का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने ।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥ 12 ॥

4.16.13

रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम् ।
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ॥ 13 ॥

4.16.14

नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे ।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥ 14 ॥

4.16.15

एवंरूपा मया नारी काचिदन्या महीतले ।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥ 15 ॥

4.16.16

लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे ।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥ 16 ॥

4.16.17

अतीव रूपिणी किं त्वमनङ्गविहारिणी ।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥ 17 ॥

4.16.18

अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम् ।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥ 18 ॥

4.16.19

निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम् ।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥ 19 ॥

4.16.20

हारालन्कारयोग्यौ तु स्तनौ चोभौ शुभोभनौ ।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥ 20 ॥

4.16.21

कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ ।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥ 21 ॥

4.16.22

वलीविभङ्गचतुरं स्तनभारविनामितम् ।
कराग्रसम्मितं मध्यं तवेदं तनुमध्यमे ॥ 22 ॥

4.16.23

दृष्ट्वैव चारुजघनं सरित्पुलिनसन्निभम् ।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥ 23 ॥

4.16.24

जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः ।
त्वत्सङ्गमाभिसन्कल्पविवृद्धो मां दहत्ययम् ॥ 24 ॥

4.16.25

आत्मप्रदानवर्षेण सन्गमाम्भोधरेण च ।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥ 25 ॥

4.16.26

मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः । त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने ।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥ 26 ॥

4.16.27

प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः । अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम ।
आत्मप्रदानसम्भोगैर्मामुद्धर्तुमिहार्हसि ॥ 27 ॥

4.16.28

चित्रमाल्याम्बरधरा सर्वाभरणभूषिता ।
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥ 28 ॥

4.16.29

नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता ।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥ 29 ॥

4.16.30

स्वादून्यमृतकल्पानि पेयानि विविधानि च ।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥ 30 ॥

4.16.31

भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम् ।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥ 31 ॥

4.16.32

इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥ 32 ॥

4.16.33

त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ 33 ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc