भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.92

3.92.1

न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।
तथाऽस्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ॥

3.92.2

परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि ।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ॥
लोमश उवाच ।

3.92.3

नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन ।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ॥

3.92.4

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥

3.92.5

यत्र धर्मेण वर्धन्ते राजानो राजसत्तम ।
सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते ॥

3.92.6

मया हि दृष्टा दैतेया दानवाश्च महीपते ।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥

3.92.7

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥

3.92.8

तीर्तानि देवा विविशुर्नाविशन्भारतासुराः ।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥

3.92.9

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।
क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत् ॥

3.92.10

तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान् ।
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ॥

3.92.11

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥

3.92.12

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः ।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥

3.92.13

तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान् ।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥
मानाभिभूतानचिराद्विनाशः समपद्यत ॥

3.92.14

निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः ।
अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः ॥

3.92.15

देवास्तु सागरांश्चैव सरितश्च सरांसि च ।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ॥

3.92.16

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव ।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥

3.92.17

एवमादानवन्तश् निरादानाश्च सर्वशः ।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥

3.92.18

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः ।
पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ॥

3.92.19

यथैव हि नृगो राजा शिविरौशीनरो यथा ।
भगीरयो वसुमना गयः पूरुः पुरूरवाः ॥

3.92.20

चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते ।
तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम् ॥

3.92.21

अलभन्त यशः पुण्यं धनानि च विशाम्पते ।
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ॥

3.92.22

यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः ।
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥

3.92.23

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् ।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ॥

3.92.24

धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः । नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc