भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.91

3.91.1

ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥

3.91.2

राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।
देवर्षिणा च सहितो लोमशेन महात्मना ॥

3.91.3

अस्मानपि महाराज नेतुमर्हसि पाण्डव ।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥

3.91.4

श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च ।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥

3.91.5

भवतो भ्रातरः शूरा धनुर्धरवराः सदा ।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥

3.91.6

भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् ।
तीर्थानां पृथिवीपाल वनानां च विशाम्पते ॥

3.91.7

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः ।
भवेम धूतपाप्मानस्तीर्थसन्दर्शनान्नृप ॥

3.91.8

भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।
अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ॥

3.91.9

भरतस्य च वीरस्य सार्वभौमस्य पार्तिव ।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥

3.91.10

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ॥

3.91.11

त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ।
भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च ॥

3.91.12

यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥

3.91.13

तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा ।
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥

3.91.14

तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥

3.91.15

विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।
धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ॥

3.91.16

स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥

3.91.17

बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ।
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥

3.91.18

ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥

3.91.19

अथ व्यासो महाभागस्तथा पर्वतनारदौ ।
दाम्यके पाण्डवन्द्रष्टुं समाजग्मुर्मनीषिणः ॥

3.91.20

तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥

3.91.21

युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम् ।
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥

3.91.22

शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् ।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥

3.91.23

मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप ।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥

3.91.24

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥

3.91.25

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥

3.91.26

लोमशस्योपसन्गृह्य पादौ द्वैपायनस् च ।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥

3.91.27

धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः ।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥

3.91.28

कठिनानि समादाय चीराजिनजटाधराः ।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥

3.91.29

इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥

3.91.30

सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः । प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc