भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.81

3.81.1

ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् ।
पापेभ्योविप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥

3.81.2

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥

3.81.3

पांसवोऽपिकुरुक्षेत्रे वायुना समुदीरिताः ।
अपिदुष्कृतकर्माणं नयन्ति परमां गतिम् ॥

3.81.4

दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च ।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥

3.81.5

तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर ।
यत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥

3.81.6

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥

3.81.7

मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर ।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥

3.81.8

गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह ।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ॥

3.81.9

ततश्च मन्तुकं राजन्द्वारपालं महाबलम् ।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥

3.81.10

ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम् ।
सततं नाम राजेन्द्र यत्रसन्निहितो हरिः ॥

3.81.11

तत्रस्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥

3.81.12

ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ॥

3.81.13

पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत् ।
ततः शालूकिनी गत्वा तीर्थसेवी नराधिप ॥

3.81.14

दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात् ।
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ॥

3.81.15

अग्निष्टोममवाप्नोति नागलोकं च विन्दति ।
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ॥

3.81.16

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततः पञ्चनदं गत्वा नियतो नियताशनः ॥

3.81.17

कोटितीर्थमुपस्पृश्य हयमेधफंल लभेत् ।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ॥

3.81.18

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ॥

3.81.19

तत्रस्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ॥

3.81.20

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ॥

3.81.21

शतशौचं समासाद्य तीर्थसेवी नराधिप ।
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ॥

3.81.22

ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः ।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥

3.81.23

तत्रैव च महाराज यक्षिणी लोकविश्रुता ।
तां चाभिगम्यराजेन्द्र सर्वान्कामानवाप्नुयात् ॥

3.81.24

कुरुक्षेत्रस् तद्द्वारं विश्रुतं भरतर्षभ ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥

3.81.25

सम्मिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः ।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ॥

3.81.26

कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ॥

3.81.27

तत्ररामेण राजेनद््रतरसा दीप्ततेजसा ।
क्षत्रमुत्साद् वीरेण ह्रदाः पञ्च निवेशिताः ॥

3.81.28

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः ॥

3.81.29

ततस्ते पितरः प्रीता राममूचुर्नराधिप ।
रामराम महाभाग प्रीताः स्म तव भार्गव ॥

3.81.30

अनया पितृभक्त्या च विक्रमेण च ते विभो ।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥

3.81.31

एवमुक्तः स राजेन्द्र राम प्रहरतांवरः ।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥

3.81.32

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ।
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ॥

3.81.33

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ।
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ॥

3.81.34

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ॥

3.81.35

प्रत्यूचुः परमप्रीता रामं हर्पसमन्विताः ।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ॥

3.81.36

यच्च रोपाभिभूतेन क्षत्रमुत्सादितं त्वया ।
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ॥

3.81.37

ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ।
ह्रदेषु तेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति ॥

3.81.38

पितरस्तस् वै प्रीता दास्यन्ति भुवि दुर्लभम् ।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ॥

3.81.39

एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा ।
आमन्त्र्य भारग्वं प्रीत्या तत्रैवान्तर्हितास्ततः ॥

3.81.40

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।
स्नात्वा ह्रहेषु रामस्य ब्रह्मचारी शुचिव्रतः ॥

3.81.41

राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ॥

3.81.42

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ।
कायशोधनमासाद्य तीर्थं भरतसत्तम ॥
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।

3.81.43

शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।
शुद्धदेहश्च संयाति युभाँल्लोकाननुत्तमान् ॥

3.81.44

ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥

3.81.45

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम् ।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ॥

3.81.46

श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः ।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ॥

3.81.47

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ॥

3.81.48

कपिलानां सहस्रस्य फलंविन्दति मानवः ।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥

3.81.49

अर्चयित्वा पितॄन्देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥

3.81.50

गवां भगवनासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥

3.81.51

शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह ।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥

3.81.52

ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम् ।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥

3.81.53

तत्रस्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ॥

3.81.54

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ॥

3.81.55

तत्रसन्निहिता नित्यं पितरो दैवतैः सह ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥

3.81.56

अश्वमेधमावाप्नोति पितृलोकं च गच्छति ।
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ॥

3.81.57

कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥

3.81.58

मातृतीर्थं च तत्रैव यत्रस्नातस्य भारत ।
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ॥

3.81.59

ततः शीतवनं गच्छेन्नियतो नियताशनः ।
तीर्थं तत्रमहाराज महदन्यत्र दुर्लभम् ॥

3.81.60

पुनाति गमनादेव कुलमेकं नराधिप ।
केशानभ्युक्ष् वै तस्मिन्पूतो भवति भारत ॥

3.81.61

तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् ।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥

3.81.62

गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ।
श्वानलोमापनयने तीर्थे भरतसत्तम ॥

3.81.63

प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च राजेन्द्रप्रयान्ति परमां गतिम् ॥

3.81.64

दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥

3.81.65

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ।
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥

3.81.66

विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ॥

3.81.67

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥

3.81.68

आपगा नाम विख्याता नदीसिद्धनिषेविता ।
श्यामाकभोजनं तत्रयः प्रयच्छति मानवः ॥

3.81.69

देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥

3.81.70

तत्रस्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च ।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥

3.81.71

ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् ।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥

3.81.72

तत्रसप्तर्षिकुण्डेषु स्नातस् यनरपुङ्गव ।
केदारे चैवराजेन्द्रकपिञ्जलमहामुनेः ॥

3.81.73

ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥

3.81.74

कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम् ।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः ॥

3.81.75

ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम् ।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ॥

3.81.76

लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति ।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ॥

3.81.77

रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते ।
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ॥

3.81.78

तत्रस्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥

3.81.79

किन्दाने च नरः स्नात्वा किञ्जप्ये च महीपते ।
अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥

3.81.80

कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ।
अग्निष्टोमस् यज्ञस्य फलं प्राप्नोति मानवः ॥

3.81.81

शन्करस्य तु पूर्वेण नारदस्य महात्मनः ।
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ॥

3.81.82

तत्रतीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत ।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन् ॥

3.81.83

शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत् ।
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ॥

3.81.84

ततस्त्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ॥

3.81.85

तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥

3.81.86

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥

3.81.87

तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ॥

3.81.88

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
तीर्ते च सर्वदेवानां स्नात्वा भरतसत्तम ॥

3.81.89

गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः ।
पाणिस्वाते नरः स्नात्त्वा तर्पयित्वा च देवताः ॥

3.81.90

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ॥

3.81.91

ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् ।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥

3.81.92

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥

3.81.93

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥

3.81.94

गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः ।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ॥

3.81.95

स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ।
कौशिक्याः सन्गमे यस्तु दृषद्वत्याश्च भारत ॥

3.81.96

स्नाति वै नियताहार सर्वपापैः प्रमुच्यते ।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता ॥

3.81.97

पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः ।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ॥

3.81.98

अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत् ।
किन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ॥

3.81.99

गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥

3.81.100

अहस्छ सुदिनं चैव द्वे तीर्थे लोकविश्रुते ।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥

3.81.101

मृगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ॥

3.81.102

अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥

3.81.103

ततो वामनकं गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्रविष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ॥

3.81.104

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
कुलपुने नरः स्नात्वा पुनाति स्वकुलं ततः ॥

3.81.105

पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम् ।
तत्रस्नात्वा नख्याघ्र विष्णुलोके महीयते ॥

3.81.106

अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् ।
अमराणां प्रभावेन स्वर्गलोके महीयते ॥

3.81.107

शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि ।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥

3.81.108

श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ॥

3.81.109

ततो नैमिपकुञ्जं च समासाद्य कुरूद्वह ।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ॥

3.81.110

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा । तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ।
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ॥

3.81.111

ऋपीणामवकाशः स्याद्यथा तुष्टिकरो महान् ।
कन्यातीर्थे नरः स्नात्वागोसहस्रफलं लभेत् ॥

3.81.112

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥

3.81.113

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ।
तत्रवर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥

3.81.114

ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनत्तमम् ॥

3.81.115

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ॥

3.81.116

यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ।
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ॥

3.81.117

क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥

3.81.118

ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥

3.81.119

ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः ।
क्षिप्तो वै महादेव ऋषेरर्थे नराधिप ॥

3.81.120

नायं नृत्येद्यथा देव तथा न्वं कर्तुमर्हसि । तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा ।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥

3.81.121

भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥
ऋषिरुवाच ।

3.81.122

तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ॥

3.81.123

यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः ।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ॥

3.81.124

अहं तु विस्मयं विप्र न गच्छामीति पश्य माम् ।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ॥

3.81.125

अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽनघ ।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥

3.81.126

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ॥

3.81.127

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत् ।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ॥

3.81.128

त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये ।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥

3.81.129

त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि लोकानां कर्ताकारयिता च ह ॥

3.81.130

त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः ।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ॥

3.81.131

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥

3.81.132

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः ।
आश्रमे चेह वत्स्यामि त्वया सह महामुने ॥

3.81.133

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ।
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥

3.81.134

सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥
पुलस्त्य उवाच ।

3.81.135

ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम् ।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥

3.81.136

कार्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत ।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ॥

3.81.137

कपालमोचनं तीर्थं सर्वपापप्रमोचनम् ।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥

3.81.138

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ॥

3.81.139

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ॥

3.81.140

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥

3.81.141

पुनात्यासप्तमं चैव कुलं नास्त्यत्रसंशयः ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥

3.81.142

पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥

3.81.143

अज्ञानाज्ज्ञानतो वाऽपिस्त्रिया वा पुरुषेण वा ।
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥

3.81.144

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ॥

3.81.145

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश् पृथूदकम् ॥

3.81.146

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ॥

3.81.147

गीतं सनत्कुमारेण व्यासेन च महात्मना ।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ॥

3.81.148

पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह ।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ॥

3.81.149

तत्रस्नात्वा दिवं यान्ति येऽपि पापकृतो नराः ।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ॥

3.81.150

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥

3.81.151

ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम् ।
सरस्वत्यारुणायाश्च सन्गमे लोकविश्रुते ॥

3.81.152

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥

3.81.153

आसप्तमं कुलं चैव पुनाति भरतर्षभ ।
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥

3.81.154

विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मिनं पुरा ।
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ॥

3.81.155

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः । क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ॥

3.81.156

समुद्राश्चापि चत्वारः समानीताश् दर्भिणा ।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ॥

3.81.157

फलानि गोसहस्राणां चतुर्णां विन्दते च सः ।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ॥

3.81.158

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ।
उभयोर्हि नरः स्नात्वा गोसरस्रफंल लभेत् ॥

3.81.159

दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत् ।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥

3.81.160

तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः ।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥

3.81.161

विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः ।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥

3.81.162

ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पुण्येन महता युक्तः सतां लोके महीयते ॥

3.81.163

यत्रयोगेश्वरः स्थाणुः स्वयमेव वृषध्वजः ।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ॥

3.81.164

तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा ।
यत्र रब्रह्मादिभिर्दैर्वैरृषिभिश्च तपोधनैः ॥

3.81.165

सैनापत्येन देवानामभिषिक्तो गुहस्तदा ।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥

3.81.166

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥

3.81.167

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥

3.81.168

ततो गच्छेदनरकं तीर्थसेवी नराधिप ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥

3.81.169

तत्रब्रह्मा स्वयं नित्यं देवैः सह महीपते ।
अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः ॥

3.81.170

सान्निध्यं तत्रराजेन्द्र रुद्रपत्न्याः कुरूद्वह ।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥

3.81.171

तत्रैव च महाराज विश्वेश्वरमुमापतिम् ।
अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः ॥

3.81.172

नारायणं चाभिगम्य पद्मनाभमरिन्दम ।
राजमानो महाराज विष्णुलोकं च गच्छति ॥

3.81.173

तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ॥

3.81.174

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप ।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ॥

3.81.175

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यत्रस्य फलं प्राप्नोति भारत ॥

3.81.176

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥

3.81.177

तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥

3.81.178

गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत् ।
ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम् ॥

3.81.179

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नयात् ।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ॥

3.81.180

बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ॥

3.81.181

त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप ।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥

3.81.182

अहोरात्रोपवासेन शक्रलोके महीयते ।
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥

3.81.183

नियतः सत्यवादी च ब्रह्मलोके महीयते ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥

3.81.184

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं ॥

3.81.185

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ॥

3.81.186

सोमलोकमवाप्नोति नरो नास्त्यत्रसंशयः ।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥

3.81.187

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ॥

3.81.188

तस्मिस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ।
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥

3.81.189

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् ।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ॥

3.81.190

लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ॥

3.81.191

तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
मासिमासि समायान्ति पुण्येन महाताऽन्विताः ॥

3.81.192

सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ॥

3.81.193

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ॥

3.81.194

उदपानानि वाप्यश्च तीर्थान्यायतनानि च ।
निःसंशयममावास्यां समेष्यन्ति नराधिप ॥

3.81.195

मासिमासि नरव्याघ्र सन्निहत्यां न संशयः ।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ॥

3.81.196

तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ।
अमावास्यां तु तत्रैव राहुग्रस्ते रदिवाकरे ॥

3.81.197

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफंल शृणु ।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ॥

3.81.198

स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः ।
यत्किञ्चिद्दुष्कृतन्कर्म स्त्रिया वा पुरुषेण वा ॥

3.81.199

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ।
पद्मवर्णेन याने ब्रह्मलोकं प्रपद्यते ॥

3.81.200

अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम् ।
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ॥

3.81.201

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।
तत्रस्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ॥

3.81.202

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥

3.81.203

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ॥

3.81.204

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥

3.81.205

ये वसन्ति कुरुक्षेत्रे तेवसन्ति त्रिविष्टपे । कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥

3.81.206

ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ।
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथञ्चन ॥

3.81.207

तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च ।
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc