भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.80

3.80.1

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोस्मि तव सुव्रत ॥

3.80.2

यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ ।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि ॥

3.80.3

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥
भीष्म उवाच ।

3.80.4

प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥

3.80.5

यदि त्वहमनुग्राह्यस्तव धर्मभृतांवर ।
सन्देहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि ॥

3.80.6

अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः ।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति ॥

3.80.7

प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तषोधन ॥
पुलस्त्य उवाच ।

3.80.8

हन्त तेऽहम्प्रवक्ष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥

3.80.9

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥

3.80.10

प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित् ।
अहन्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥

3.80.11

अकल्कको निरारम्भो लध्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते ॥

3.80.12

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्धफलमश्नुते ॥

3.80.13

ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥

3.80.14

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥

3.80.15

प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् ।
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥

3.80.16

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधांवर ॥

3.80.17

ऋषीणां परमं गुह्यमिदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥

3.80.18

अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥

3.80.19

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥

3.80.20

सर्वतीर्थेषु राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥

3.80.21

दशकोटिसहस्राणि तीर्थानां वै महामते ।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥

3.80.22

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो ॥

3.80.23

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः ।
दिव्ययोगा महाराज पुण्येन महताऽन्विताः ॥

3.80.24

मनसाभ्येतुकामस्य पुष्कराणि मनस्विनः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥

3.80.25

तस्मिंस्तीर्थे महाभागो नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसत्तमः ॥

3.80.26

पुष्करेषु महाभाग देवाः सर्पिगणाः पुरा ।
सिद्धिं समभिसम्प्राप्ताः पुण्येन महताऽन्विताः ॥

3.80.27

तत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके च पूज्यते ॥

3.80.28

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनासौ कर्मणा भीष्म प्रेत् यचेह च मोदते ॥

3.80.29

शाकैर्मूलैः फलैर्वाऽपिचेन वर्तयते स्वयम् । तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥

3.80.30

अपि वाऽप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत् ।
तेनापि पूजनेनाशु प्रेत्यानन्त्याय कल्पते ॥

3.80.31

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम ।
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ॥

3.80.32

कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम् ।
फलं तत्राक्षयं तेन लभते भरतर्षभ ॥

3.80.33

सायम्प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥

3.80.34

जन्मप्रभृतियत्पापं स्त्रिया वा पुरुषस् वा ।
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥

3.80.35

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥

3.80.36

उष्य द्वादशवर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ॥

3.80.37

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥

3.80.38

[त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् ॥ ]

3.80.39

दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥

3.80.40

उष्य द्वादशरात्रं तु नियतो नियताशनः ।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत् ॥

3.80.41

जम्बूमार्गं समाक्श्यि देवर्षिपितृसेवितम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥

3.80.42

तत्रोष्य रजनीः पञ्च कषष्ठकालक्षमी नरः ।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥

3.80.43

तत्रगत्वा महाप्राज्ञः कुर्याच्छ्राद्धं दृढव्रतः ।
वाजपेयमवाप्नोति दुष्कृतं चास्य नश्यति ॥

3.80.44

जम्बूमार्गादुपावृकत्यगच्छेत्स्थण्डिलकाश्रमम् ।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति ॥

3.80.45

आगस्त्यं सर आसाद्य पितृदेवार्चने रतः ।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥

3.80.46

शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम् ।
कण्वाश्रमं ततो गच्छेच्ध्रीजुष्टं लोकपूजितम् ॥

3.80.47

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते ॥

3.80.48

अर्चयुत्वा पितॄन्देवान्नियतो नियताशनः ।
सर्वकामसमृद्धः स्याद्यज्ञस्य फलमश्नुते ॥

3.80.49

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।
हयमेधस्य यज्ञस्य फंल प्राप्नोति तत्र वै ॥

3.80.50

महाकालं ततो गच्छेन्नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥

3.80.51

ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः ।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥

3.80.52

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।
महादेवप्रसादाच्च गाणपत्यं च विन्दति ॥

3.80.53

समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः । राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् ॥

3.80.54

नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ॥

3.80.55

दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥

3.80.56

चर्मण्वतीं समासाद्य नियतो नियताशनः ।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत् ॥

3.80.57

ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम् ।
पृथिव्यां यत्रवै छिद्रं पूर्वमासीद्युधिष्ठिर ॥

3.80.58

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥

3.80.59

पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।
कपिलानां नरश्रेष्ठ शतस् फलमश्नुते ॥

3.80.60

ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम् ।
तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम् ॥

3.80.61

देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ।
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ॥

3.80.62

तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥

3.80.63

ततो गत्वा सरस्वत्याः सागरस्य च सन्गमे । गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति ।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ ॥

3.80.64

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ।
प्रभासते यथा सोमः सोश्वमेधं च विन्दति ॥

3.80.65

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत् ॥

3.80.66

ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥

3.80.67

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम ॥

3.80.68

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।
महादेवस्य सान्निध्यं तत्र वै पुरुषर्षभ ॥

3.80.69

सागरस्य च सिन्धोश्च सन्गमं प्राप्य दुर्लभम् ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥

3.80.70

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा ॥

3.80.71

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥

3.80.72

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥

3.80.73

शमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् ।
तत्रब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥

3.80.74

तत्रस्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृतियत्पापं तत्स्नातस्य प्रणश्यति ॥

3.80.75

शमी चात्रनरश्रेष्ठ सर्वदेवैरभिष्टुता ।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥

3.80.76

गत्वा यत्रमहाप्राज्ञ विष्णुना प्रभविष्णुना ।
पुरा शौचं कृतंराजन्हत्वा दैवतकण्टकान् ॥

3.80.77

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।
गमनादेवतस्यां हि हयमेधफलं लभेत् ॥

3.80.78

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः ।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥

3.80.79

तीर्थे चात्र सर पुण्यं वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतोभवेत् ॥

3.80.80

सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥

3.80.81

ब्रह्मतीर्थं समासाद्य शुचिः शीलसमन्वितः ।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् ॥

3.80.82

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात् ॥

3.80.83

रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा ॥

3.80.84

अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥

3.80.85

ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम् ।
तत्रस्नात्वा न योन्यां वै भवेद्भरतसत्तम ॥

3.80.86

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः ।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः ॥

3.80.87

गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥

3.80.88

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्रदृश्यन्ते मत्स्याः सौवर्णराजताः ॥

3.80.89

तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥

3.80.90

वितस्तां च समासाद्य सन्तर्प्य पितृदेवताः ।
नरः फलमवाप्नोति वाजपेयस्य भारत ॥

3.80.91

काश्मीरष्वेव नागस्य भवनं तक्षकस्य च ।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥

3.80.92

तत्रस्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥

3.80.93

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ॥

3.80.94

चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥

3.80.95

ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः ।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः ॥

3.80.96

राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप ।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् ॥

3.80.97

विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा ।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् ॥

3.80.98

ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः ।
यथाभिलषितानन्यान्कामान्दत्वा महीपते ॥

3.80.99

तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा ।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत ॥

3.80.100

गवां शतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः ॥

3.80.101

ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत् । अर्चयित्वामहादेवमश्वमेधफलं लभेत् ।

3.80.102

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोपितो राजन्नग्निष्टोमफलं लभेत् ॥

3.80.103

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुतम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥

3.80.104

त्रिशूलपाणएः स्थानं च त्रिषु लोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥

3.80.105

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥

3.80.106

कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम् ।
तत्रस्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत ॥

3.80.107

यजनं याजनं चैवतथैव ब्रह्मबालुकम् ।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः ॥

3.80.108

अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम् ॥

3.80.109

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः ।
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः ॥

3.80.110

गमनादेव राजेन्द्र दीर्घसत्रमरिन्दम ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥

3.80.111

ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्रमेरुपृष्ठे सरस्वती ॥

3.80.112

चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते । तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्वदा ।
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥

3.80.113

शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत् ।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ॥

3.80.114

शशयानं च राजेन्द्रतीर्थमासाद्य दुर्लभम् ।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥

3.80.115

सरस्वत्यां महाराज शतं संवत्सरं च ते ।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥

3.80.116

तत्रस्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥

3.80.117

कुमारकोटीमासाद्य नियतः कुरुनन्दन ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥

3.80.118

गवामयुतमाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥

3.80.119

पुरा यत्र महाराज मुनिकोटिः समागता ।
हर्षेण महताऽविष्टा रुद्रदर्शनकाङ्क्षया ॥

3.80.120

अहम्पूर्वमहम्पूर्वं द्रक्ष्यामि वृषभध्वजम् ।
एवं सम्प्रस्थिता राजन्नृषयः किल भारत ॥

3.80.121

ततो योगीश्वरेणापि योगमास्थाय भूपते ।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥

3.80.122

स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतः स्थिता ।
मया पूर्वतरं दृष्ट इतिते मेनिरे पृथक् ॥

3.80.123

तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम् ।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥

3.80.124

अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ।
तत्रस्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥

3.80.125

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत राजेन्द्र सन्गमं लोकविश्रुतम् ॥

3.80.126

सरस्वत्या महापुण्यं केशवं समुपासते ।
यत्रब्रह्माहयो देवा ऋषयश्च तपोधनाः ॥

3.80.127

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् । तत्रस्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥

3.80.128

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप । तत्रावसानमासाद्य गोसहस्रफलं लभेत् ।

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc