भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.76

3.76.1

स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।
पुरादल्पपरीवारो जगाम निषधान्प्रति ॥

3.76.2

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै ।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥

3.76.3

स कम्पयन्निव महीं त्वरमाणो महापुरीम् ।
प्रविवेशाथ संरब्धस्तरसैव महामनाः ॥

3.76.4

ततः पुष्करमासाद्य वीरसेनसुतो नलः ।
उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ॥

3.76.5

दमयन्ती च यच्चान्यन्मम किञ्चन विद्यते ।
एष वै मम सन्न्यासस्तव राज्यन्तु पुष्कर ॥

3.76.6

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥

3.76.7

जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु ।
प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ॥

3.76.8

न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥

3.76.9

वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा ।
येनकेनाप्युपायेन वृद्धानामिति शासनम् ॥

3.76.10

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ॥

3.76.11

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ॥

3.76.12

दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्कृतन्कर्म दमयन्त्याः क्षयं गतम् ॥

3.76.13

दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध ।
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ॥

3.76.14

धनेनानेन वै भैमी जितेन समलन्कृता ।
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥

3.76.15

नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध ।
देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ॥

3.76.16

जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।
कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ॥

3.76.17

श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः ।
इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः ॥

3.76.18

स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः ।
पणावः किं व्याहरसे जितो न व्याहरिष्यसि ॥

3.76.19

ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।
एकपाणेन भद्रं ते नलेन स पराजितः ॥

3.76.20

स रत्नकोशनिचयैः प्राणेन पणितोपि च ।
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ॥

3.76.21

मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम् । वैदर्भी न त्वया शक्या राजापशद वीक्षितम् ।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥

3.76.22

न त्वया तत्कृतन्कर्म येनाहं विजितः पुरा ।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥

3.76.23

नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ।
यथासुखं वै जीवत्वम्प्राणानवसृजामि ते ॥

3.76.24

तथैव सर्वसम्भारं स्वमंशं वितरामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥

3.76.25

सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता सञ्जीव शरदः शतम् ॥

3.76.26

एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।
वचनैस्तोषयामास परिष्वज्य पुनः पुनः ॥

3.76.27

सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम् ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥

3.76.28

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥

3.76.29

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।
प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः ॥

3.76.30

महत्या सेनया सार्धंविनीतैः परिचारकैः ।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥

3.76.31

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ॥

3.76.32

प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ।
हितेषु चैषां सततं पितेवावहितोऽभवत् ॥

3.76.33

पौरा जानपदाश्चापि सम्प्रहृष्टतनूरुहाः ।
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ॥

3.76.34

अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च ।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc