भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.75

3.75.1

अथ तां व्युषितो रात्रिं नलो राजा स्वलन्कृतः ।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥

3.75.2

ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।
ततो नु दमयन्ती च ववन्दे पितरं शुभा ॥

3.75.3

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ॥

3.75.4

नलेन सहितां तत्रदमयन्तीं पतिव्रताम् ।
अनुजग्राह महता सत्कारेण क्षितीश्वरः ॥

3.75.5

तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥

3.75.6

ततो बभूव नमरे सुमहान्हर्षजः स्वनः ।
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथाऽगतम् ॥

3.75.7

अशोभयच्च नगरीं पताकाध्वजमालिनीम् ।
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलन्कृताः ॥

3.75.8

द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः ।
अर्चितानि च सर्वाणि देवतायतनानि च ॥

3.75.9

ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम् ।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥

3.75.10

तमानाय्य नलं राजा क्षमयामास पार्थिवः ।
स च तं क्षमयामास हेतुभिर्बुद्धिसम्मितः ॥

3.75.11

स सत्कृतोमहीपालो नैषधं विस्मिताननः ।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥

3.75.12

कच्चित्तु नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासे वसतो मद्गृहेवसुधाधिप ॥

3.75.13

यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित् ।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥
नल उवाच ।

3.75.14

न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥

3.75.15

पूर्वं ह्यापि सखा मेऽसि सम्बन्धी च जनाधिप ।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥

3.75.16

सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहेराजन्यथा तव गृहे सदा ॥

3.75.17

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥

3.75.18

एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः ।
स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ॥

3.75.19

गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप । निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः ।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥

3.75.20

ऋतुपर्णे गते राजन्नलो राजा विशाम्पते । नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc