महाभारत · अध्याय 3.6
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति ।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ॥
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम् । विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ॥ ]
स सभाद्वारमागम्य विदुरस्मारमोहितः ।
समक्षं पार्थिवेनद्राणां विसञ्ज्ञः प्रापतद्भुवि ॥
स तु लब्ध्वा चिरात्सञ्ज्ञां समुत्थाय महीतलात् ।
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः ।
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे ॥
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै ।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ॥
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः ।
भ्रातृश्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत् ॥
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम ।
यदि जीवति रोषेण मया पापेन निर्धुतः ॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन ।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ॥
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् ।
न जह्माज्जीवितं प्राज्ञ तं गच्छानय सञ्जय ॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च । सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः ।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः ।
भ्रातृभिश्चाभिसन्गुप्तं देवैरिव पुरन्दरम् ॥
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः ।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः ।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥
सञ्जय उवाच ।
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः ।
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् ।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम् ॥
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः ।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः ।
दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ ।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥
वैशम्पायन उवाच ।
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह ।
क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ ॥
विदुर उवाच ।
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान् ।
तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः ।
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ॥
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव ।
दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ॥
वैशम्पायन उवाच ।
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती । विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0