भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.5

3.5.1

पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः ।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥

3.5.2

सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते ।
ययुर्वननैव वनं सततं पश्चिमां दिशम् ॥

3.5.3

ततः सरस्वतीकूले समेषु मरुधन्वसु ।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥

3.5.4

तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥

3.5.5

विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः ।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥

3.5.6

ततो गत्वा विदुरः काम्यकं त- च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन ।
ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥

3.5.7

ततोऽपश्यद्विदुरं तूर्णमारा- दभ्यायान्तं सत्यसन्धः स राजा ।
अथाब्रवीद्धातरं भीमसेनं किन्नु क्षत्ता वक्ष्यतिनः समेत्य ॥

3.5.8

कच्चिन्नायं वचनात्सौबलस्य समाह्वातुं देवनायोपयाति ।
कच्चित्क्षुद्रः कुशली चाऽयुधानि जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ॥

3.5.9

समाहूतः केनचिदाहवाय नाहं शक्तो भीमसेनापयातुम् ।
गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः ॥
वैशम्पायन उवाच ।

3.5.10

तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव ।
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ॥

3.5.11

समाश्वस्तं विदुरं ते नरर्षभा- स्ततोऽपृच्छन्नागमनाय हेतुम् ।
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तं धृतराष्ट्रेऽम्बिकेये ॥
विदुर उवाच ।

3.5.12

अवोचन्मां धृतराष्ट्रोऽभिगुप्त- मजातशत्रो परिगृह्याभिपूज्य ।
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ॥

3.5.13

मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव ।
तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ॥

3.5.14

परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च शुतवानाम्बिकेयः ।
यथाऽतुरस्येव हि पथ्यमौपधं न रोचनते स्मास्य तदुच्यमानम् ॥

3.5.15

न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥

3.5.16

ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति ।
यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ॥

3.5.17

ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिञ्श्रद्धा तव तत्र प्रयाहि ।
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ॥

3.5.18

सोहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र ।
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥

3.5.19

क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः ।
संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव ॥

3.5.20

यस्याविभक्तं वसु राजन्सहायै- स्तस्य दुःखस्यांशभाजः सहायाः ।
सहायानामेष सन्ग्रगणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥

3.5.21

सत्यं श्रेष्टं पाण्डवा निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः ।
आत्मा चैषामग्रतो नातिवर्ते देवं वृत्तिर्वर्धते भूमिपाल ॥
युधिष्ठिर उवाच ।

3.5.22

एवं करिष्यामि यथा ब्रवीपि परां बुद्धिमुपगम्याप्रमत्तः ।
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc