भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.57

3.57.1

दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम् ॥

3.57.2

भयशोकसमाविष्टा राजन्भीमसुता ततः ।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥

3.57.3

सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥

3.57.4

बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥

3.57.5

बृहन्सेने व्रजामात्यानानाय्य नलंशासनात् ।
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥

3.57.6

इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर । उवाच देव्या वचनं मन्त्रिणां सा समीपत ॥

3.57.7

ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥

3.57.8

तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥

3.57.9

वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥

3.57.10

निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान् ।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥

3.57.11

बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥

3.57.12

बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभापितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥

3.57.13

वार्ष्णेयं तु ततो भैमी सान्त्वयच्छ्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥

3.57.14

जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।
तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि ॥

3.57.15

यथायथा हि नृपतिः पुष्करेणैव जीयते ।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते ॥

3.57.16

यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥

3.57.17

सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति नैषध ॥

3.57.18

यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे ।
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः ॥

3.57.19

यत्तु मे वचनं राजा नाभिनन्दति मोहितः । शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः ।
न हि मे शुध्ते भावो विनाशं प्रति सारथे ॥

3.57.20

नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि ॥

3.57.21

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा ॥

3.57.22

दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः ।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥

3.57.23

तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥

3.57.24

हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥

3.57.25

आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् । क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः ।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥

3.57.26

ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः । भृतिं च स ददौ चास्य सारथ्येन नियोजितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc