भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.56

3.56.1

एवं स समयं कृत्वा द्वापरेण कलिः सह ।
आजगाम ततस्तत्र यत्रराजा स नैषधः ॥

3.56.2

स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् ।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥

3.56.3

कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्त नैषधः ।
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥

3.56.4

स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥

3.56.5

अक्षद्यूते नलं जेता भवान्हि सहितो मया ।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥

3.56.6

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात् ॥

3.56.7

आसाद्य तु नलं वीरं पुष्करः परवीरहा ।
दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः ॥

3.56.8

न चक्षमे ततो राजा समाह्वानं महामनाः ।
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत ॥

3.56.9

ततः स राज्ञा सहसा देवितुं सम्प्रचक्रमे ॥

3.56.10

भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः । हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम् ।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥

3.56.11

तमक्षमदसम्मत्तं सुहृदां न तु कश्चन ।
निवारणेऽभवच्छक्तो दीव्यमानमरिन्दमम् ॥

3.56.12

ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत ।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥

3.56.13

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥

3.56.14

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥

3.56.15

ततः सा बाष्पकलया वाचा दुखेन कर्शिता ।
उवाच नैषधं भैमी शोकोपहतचेतना ॥

3.56.16

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।
वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः ॥

3.56.17

आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम् । तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥

3.56.18

तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम् ।
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ॥

3.56.19

ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः ।
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥

3.56.20

तथा तदभवद्द्यूतं पुष्करस्य नलस्य च । युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc