भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.33

3.33.1

याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः ।
निश्वसन्नुपसन्गम्य क्रुद्धो राजानमब्रवीत् ॥

3.33.2

राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥

3.33.3

नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ॥

3.33.4

गोमायुनेव सिंहानां दिर्बलेन बलीयसाम् ।
आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥

3.33.5

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ॥

3.33.6

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥

3.33.7

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥

3.33.8

भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥

3.33.9

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ॥

3.33.10

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥

3.33.11

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ॥

3.33.12

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥

3.33.13

भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥

3.33.14

दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥

3.33.15

स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम् ।
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ॥

3.33.16

अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः ।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥

3.33.17

तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ॥

3.33.18

अधवा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥

3.33.19

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ॥

3.33.20

आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे ।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ॥

3.33.21

कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ॥

3.33.22

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥

3.33.23

यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥

3.33.24

यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः ।
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ॥

3.33.25

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥

3.33.26

सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥

3.33.27

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥

3.33.28

तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥

3.33.29

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ॥

3.33.30

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसन्कल्पः शरीरं नास्य दृश्यते ॥

3.33.31

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति ।
अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ॥

3.33.32

न हि कामेन कामोऽन्यः सिध्यते फलमेव तत् ।
उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ॥

3.33.33

इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ॥

3.33.34

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति ।
स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ॥

3.33.35

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥

3.33.36

तस्य नाशं विनाशं वा जरया मरणेन वा ।
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ॥

3.33.37

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विपये वर्तमानानां या प्रीतिरुपजायते ॥

3.33.38

स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ॥

3.33.39

न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥

3.33.40

धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥

3.33.41

कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥

3.33.42

धर्मं चार्थं च कामं च यथावद्वदतांवर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥

3.33.43

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ॥

3.33.44

तद्वाऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥

3.33.45

विदितश्चैव मे धर्मः सततं चरितश्च ते ।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥

3.33.46

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ॥

3.33.47

एष नार्थविहीनेन शक्यो राजन्निपेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ॥

3.33.48

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥

3.33.49

न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ॥

3.33.50

प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥

3.33.51

भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ॥

3.33.52

स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् ।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ॥

3.33.53

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥

3.33.54

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ॥

3.33.55

प्रजापालनसम्भूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥

3.33.56

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥

3.33.57

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ॥

3.33.58

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥

3.33.59

जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥

3.33.60

भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥

3.33.61

एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ॥

3.33.62

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥

3.33.63

सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ॥

3.33.64

सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ॥

3.33.65

अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ॥

3.33.66

अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः ।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ॥

3.33.67

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥

3.33.68

अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डितः ॥

3.33.68

भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥

3.33.69

सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥

3.33.70

सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥

3.33.71

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ॥

3.33.72

एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥

3.33.73

न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः ।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥

3.33.74

अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ॥

3.33.75

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथयन्त्यः परिषदः पृथग्राजन्समागताः ॥

3.33.76

इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥

3.33.77

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ॥

3.33.78

यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥

3.33.79

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ॥

3.33.80

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥

3.33.81

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥

3.33.82

इतिलोके निर्वचनं पुरश्चरति भारत ।
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ॥

3.33.83

इमामवस्थां च गते सहास्माभिररिन्दम् ।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ॥

3.33.84

स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ॥

3.33.85

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ॥

3.33.86

आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा । अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा ।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥

3.33.87

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥

3.33.88

न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥

3.33.89

सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च ।
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ॥

3.33.90

शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम् । इह यत्नमुपाहृत्य बलेन महताऽन्वितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc