भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.305

3.305.1

ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया ।
यथाप्रतिज्ञं राजेन्द्रन च मिथ्या ब्रवीम्यहम् ॥

3.305.2

एष चैव स्वभावो मे पूजयेयं द्विजानिति ।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम ॥

3.305.3

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि ।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ॥

3.305.4

लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान् ।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥

3.305.5

विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः ।
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥

3.305.6

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ ।
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥

3.305.7

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते ।
तारणाय समर्थाः स्युर्विपरीते वधाय च ॥

3.305.8

रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् ।
न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥

3.305.9

अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः ।
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥

3.305.10

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् ।
यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति ॥

3.305.11

एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च ।
इतिचेति च क्रतव्यं राजा सर्वमथादिशत् ॥

3.305.12

एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया ।
मद्धितार्थं तथाऽत्मार्थन्कुलार्थं चाप्यनिन्दिते ॥

3.305.13

एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः ।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः ॥

3.305.14

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता ।
अपराध्येत यत्किञ्चिन्न कार्यं हृदि तत्त्वया ॥

3.305.15

द्विजातयो महाभागा वृद्धबालतपस्विषु ।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा ॥

3.305.16

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः ।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ॥

3.305.17

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः ।
हंसचन्द्रांशुसन्काशं गृहमस्मै न्यवेदयत् ॥

3.305.18

तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत् ।
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ॥

3.305.19

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च ।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥

3.305.20

तत्रसा ब्राह्मणं गत्वा पृथा शौचपरा सती । विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc