भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.299

3.299.1

एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः ।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥

3.299.2

स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥

3.299.3

तावाश्रमान्नदीश्चैववनानि च सरांसि च ।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः ॥

3.299.4

श्रुत्वा शब्दं तु यं कञ्चिदुन्मुखौ सुतशङ्कया ।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम् ॥

3.299.5

भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।
कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः ॥

3.299.6

ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम् ॥

3.299.7

तत्रभार्यासहायः स वृतो वृद्धैस्तपोधनैः ।
आश्वासितोपि चित्रार्थैः पूर्वराजकथाश्रयैः ॥

3.299.8

ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया । बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च ।
शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ ॥

3.299.9

हापुत्र हासाध्वि वधु क्वासिक्वासीत्यरोदताम् ।
ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः ॥
सुवर्चा उवाच ।

3.299.10

यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
गौतम उवाच ।

3.299.11

वेदाः साङ्गा मयाऽधीतास्तपो मे सञ्चितं महत् ।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः ॥

3.299.12

समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।
वायुभक्षोपवासश्च कृतोमे विधिवत्सदा ॥

3.299.13

अनेन तपसा वेद्मि सर्वं परचीकीर्षितम् ।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति ॥
शिष्य उवाच ।

3.299.14

उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिःसृतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥
ऋषय ऊचुः ।

3.299.15

यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥
भारद्वाज उवाच ।

3.299.16

यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
दाल्भ्या रौवाच ।

3.299.17

यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताऽहारमकृत्वैव तथा जीवति सत्यवान् ॥
आपस्तम्ब उवाच ।

3.299.18

यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवीं चैववृद्धिं ते तथा जीवति सत्यवान् ॥
धौम्य उवाच ।

3.299.19

सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतस्तथा जीवति स्यवान् ॥
मार्कण्डेय उवाच ।

3.299.20

एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत् ॥

3.299.21

ततो मुहूर्तात्सावित्री भर्त्रा सत्वता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥

3.299.22

दृष्ट्वा चोत्पतिताः सर्वेहर्षं जग्मुश्च ते द्विजाः ।
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदतां ॥
ब्राह्मणा ऊचुः ।

3.299.23

पुत्रेण सन्गतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥

3.299.24

समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।
चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ठ्या विवर्धसे ॥

3.299.25

सर्वैरस्माभिरुक्तं यत्तथा तन्नात्रसंशयः ।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति ॥
मार्कण्डेय उवाच ।

3.299.26

ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि ।
उपासाञ्चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥

3.299.27

शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन् ॥

3.299.28

ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥

3.299.29

प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।
विरात्रे चागतं कस्मात्कोनु बन्धस्तवाभवत् ॥

3.299.30

सन्तापितः पिता माता वयं चैव नृपात्मज ।
कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हिसि ॥
सत्यवानुवाच ।

3.299.31

पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥

3.299.32

सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥

3.299.33

सर्वेषामेव भवतां सन्तापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥
गौतम उवाच ।

3.299.34

अकस्माच्चक्षुः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥

3.299.35

श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥

3.299.36

त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ॥
सावित्र्युवाच ।

3.299.37

एवमेतद्यथा वेत्थ सन्कल्पो नान्यथा हि वः ।
न हि किञ्चिद्रहस्यं मे श्रूयतां तथ्यमेव यत् ॥

3.299.38

मृत्युर्मे पत्युराख्यातो नारदेन महात्मना ।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥

3.299.39

सुप्तं चैनं साक्षादुपागच्छत्सकिन्करः ।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥

3.299.40

अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥

3.299.41

चक्षुषी च स्वराज्यञ्च द्वौ वरौ श्वशुरस्य मे ।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥

3.299.42

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् । भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम् ।

3.299.43

एतत्सर्वं मयाऽख्यातं कारणं विस्तरण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥
ऋषय ऊचुः ।

3.299.44

निमज्ज्मानं व्यसनैरभिद्रुतं कुलं नरन्द्रस्य तमोमये ह्रदे ।
त्वया सुशीलव्रतपुण्यया कुलं रसमुद्धृतं साध्वि पुनः कुलीनया ॥
मार्कण्डेय उवाच ।

3.299.45

तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयः समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा शिवेन रजग्मुर्मुदिताः स्वमालयम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc