भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.298

3.298.1

अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काण्ठान्यपाटयत् ॥

3.298.2

तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥

3.298.3

सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।
व्यायामेन ममानेन जाता शिरसि वेदना ॥

3.298.4

अङ्गानि चैव सावित्रि हृदयं दूयतीव च ।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥

3.298.5

शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् । भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम ।
तत्स्वप्तुमिच्छे कल्याणि न स्तातुं शक्तिरस्ति मे ॥

3.298.6

सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिर कृत्वा निषसाद महीतले ॥

3.298.7

ततः सा नारदवचो विमृशन्ती तपस्विनी ।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥

3.298.8

हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती । मुहूर्तादेव चापश्य्पुरुषं रक्तवाससम् ।
वद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥

3.298.9

श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥

3.298.10

तं दृष्ट्वासहसोत्थाय भर्तुन्यस्य शनैः शिरः ।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥

3.298.11

दैवतन्त्वाभिजानामि वपुरेतद्ध्यमानुषम् ।
कामया ब्रूहि देवेश कस्त्वं किञ्च चिकीर्षसि ॥
यम उवाच ।

3.298.12

पतिव्रताऽसि सावित्रि तथैव च तपोन्विता ।
अस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥

3.298.13

अयं ते रसत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः ।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चीकिर्षितं ॥
सावित्र्युवाच ।

3.298.14

श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् ।
नेतुं किल भवान्कस्मादागतोसि स्वयं प्रभो ॥
मार्कण्डेय उवाच ।

3.298.15

इत्युक्तः पितृराजस्तां भगवान्स्वचिकीर्षितम् ।
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥

3.298.16

अयं च धर्मसंयुक्तो रूपवान्गुणसागरः ।
नार्हो मत्पुरुषैर्नेतुमतोस्मि स्वयमागतः ॥

3.298.17

ततः सत्यवतः कायात्पाशबद्धं वशन्गतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥

3.298.18

ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।
निरविचेष्टंशरीरं तद्बभूवाप्रियदर्सनम् ॥

3.298.19

यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः ।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥

3.298.20

भर्तुः शरीररां च विधाय हि तपस्विनी । भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा ।
नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥
यम उवाच ।

3.298.21

निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम् ।
कृतम्भर्तुस्त्वयाऽनृण्यं यावद्गम्यं गतं त्वया ॥
सावित्र्युवाच ।

3.298.22

यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति ।
मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥

3.298.23

तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च ।
तव चैव प्रसादेन न मे प्रतिहता गतिः ॥

3.298.24

प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः ।
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥

3.298.25

नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च ।
विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥

3.298.26

एकस्य धर्मेण सतां मतेन सर्वेस्म तं मार्गमनुप्रपन्नाः ।
मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥
यम उवाच ।

3.298.27

निवर्त तुष्टोस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।
वरं वृणीष्वेहविनाऽस्य जीवितं ददानि ते सर्वमनिन्दिते वरम् ॥
सावित्र्युवाच ।

3.298.28

च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे ।
स लब्धचक्षुर्बलवान्भवेन्नृप- स्तव प्रसादाज्ज्वलनार्कसन्निभः ॥
यम उवाच ।

3.298.29

ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच ।

3.298.30

श्रमः कुतो भर्तृसमीपतो हिमे यतो हि भर्ता मम सा गतिर्ध्रुवा ।
यतः पतिं नमेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥

3.298.31

सतां सकृत्सन्गतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।
न चाफलं सत्पुरुषेण सन्गतं ततः सतां सन्निवसेत्समागमे ॥
यम उवाच ।

3.298.32

मनोनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम् ।
विना पुनः सत्यवतोस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥
सावित्र्युवाच ।

3.298.33

हृतम्पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यंलभतां स पार्थिवः ।
कजह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम् ॥
यम उवाच ।

3.298.34

स्वमेवं राज्यं प्रतिपत्स्यतेऽचिरा- न्न च स्वधर्मात्परिहीयते नृपः ।
कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥
सावित्र्युवाच ।

3.298.35

प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया ।
ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥

3.298.36

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥

3.298.37

एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः ।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥
यम उवाच ।

3.298.38

पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम् ।
विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥
सावित्र्युवाच ।

3.298.39

ममानपत्यः पृथिवीपतिः पिता भवत्पितुः पुत्रशतं तथौरसम् ।
कुलस्य सन्तानकरं च यद्भवे- त्तृतीयमेतद्वरयामि ते वरम् ॥
यम उवाच ।

3.298.40

कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे ।
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच ।

3.298.41

न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति ।
अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥

3.298.42

विवस्वतस्त्वं तनयऋ प्रतापवां- स्ततो हि वैवस्वत उच्यसे बुधैः ।
समेन धर्मेण चरन्ति ताः प्रजा- स्ततस्तवेहेवर धर्मराजता ॥

3.298.43

आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः ।
तस्मात्सत्सु विशेपेण सर्वः प्रणयमिच्छति ॥

3.298.44

सौहदात्सर्वभूतानां विश्वासो नाम जायते ।
तस्मात्सत्सु विशेपेण विश्वासं कुरुते जनः ॥
यव उवाच ।

3.298.45

उदाहृतन्ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया ।
अनेन तुष्टोस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥
सावित्र्युवाच ।

3.298.46

ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।
शतं सुतानां बलवीर्यशालिना- मिदञ्चतुर्थं वरयामि ते वरम् ॥
यम उवाच ।

3.298.47

शतं सुतानां बलवीरय्शालिनां भविष्यति प्रीतिकरं तवाबले ।
परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥
सावित्र्युवाच ।

3.298.48

सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति ।
सतां सद्भिर्नाफलः सन्गमोस्ति सद्भ्यो भयन्नानुवर्तन्ति सन्तः ॥

3.298.49

सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति ।
सन्तो गतिर्भूतभव्यस् राज- न्सतां मध्ये नावसीदन्ति सन्तः ॥

3.298.50

आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः ॥

3.298.51

न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः ।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥
यम उवाच ।

3.298.52

यथायथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् ।
तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥
सावित्र्युवाच ।

3.298.53

न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद ।
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना ॥

3.298.54

न कामये भर्तविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् ।
नकामये भर्तविनाकृता श्रियं न भर्तृहीना व्यवसामि जीबितुम् ॥

3.298.55

वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः ।
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥
मार्कण्डेय उवाच ।

3.298.56

तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः ।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥

3.298.57

एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।
तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्तसंहितैः ॥

3.298.58

अरोगस्व नेयश्च सिद्धार्थः स भविष्यि ।
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति ॥

3.298.59

इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ।
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति ॥

3.298.60

ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ।
ख्यातास्त्वन्नामधेयाश्चभविष्यन्तीह शाश्वताः ॥

3.298.61

पितुश्च ते पुत्रशतं भविता तव मातरि । मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥

3.298.62

एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् ।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥

3.298.63

सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥

3.298.64

सा भूमौ प्रेक्ष्यभर्तारमुपसृत्योपगृह्य च ।
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥

3.298.65

सञ्ज्ञां चस पुनर्लब्ध्वा सावित्रीमभ्यभाषत ।
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्यवै ॥

3.298.66

सुचिरं बत सुप्तोस्मि किमर्थं नावबोधितः ।
क्व चासौ पुरुषः श्यामो योसौ मां सञ्चकर्षह ॥
सावित्र्युवाच ।

3.298.67

सुचिरं त्वम्प्रसुप्तोसि ममाह्के पुरुषर्षभ ।
गतः स भगवान्देवः प्रजासंयमनो यमः ॥

3.298.68

विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज ।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥
मार्कण्डेय उवाच ।

3.298.69

उपलभ्यततः सञ्ज्ञां सुखसुप्त इवोत्थितः ।
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥

3.298.70

फलाहारोस्मि निष्क्रान्तस््वया सह सुमध्यमे ।
ततः पाटयतः काष्ठं शरिसो मे रुजाऽभवत् ॥

3.298.71

शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् ।
तवोत्सङ्गे प्रसुप्तोस्मि इति सर्वं स्मरे शुभे ॥

3.298.72

त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः ।
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥

3.298.73

तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे ।
स्वप्नो मे यदिवा दृष्टो यदि वा सत्यमेव तत् ॥

3.298.74

तमुवाचाथ सावित्री रजनी व्यवगाहते ।
श्वस्ते सर्वंयथावृत्तमाख्यास्यामि नृपात्मज ॥

3.298.75

उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥

3.298.76

नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥

3.298.77

एता घोरं शिवा नादान्दिशं दक्षिणपश्चिमाम् ।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥
सत्यवानुवाच ।

3.298.78

वनं प्रतिभयाकारं घनेन तमसा वृतम् ।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥
सावित्र्युवाच ।

3.298.79

अस्मिन्न वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् ।
वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित्क्वचित् ॥

3.298.80

ततोऽग्निमानयित्वेह ज्वालयिप्यामि सर्वतः ।
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ॥

3.298.81

यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये ।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥

3.298.82

श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव ।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥
सत्यवानुवाच ।

3.298.83

शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।
मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम् ॥

3.298.84

न कदाचिद्विकाले हि गतपूर्वोहमाश्रमात् ।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥

3.298.85

दिवाऽपिमयि निष्क्रान्ते सन्तप्येते गुरू मम ।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः ॥

3.298.86

मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा ।
उपालब्धश्च बहुशश्चिरेणागच्छसीति हि ॥

3.298.87

कात्ववस्था तयोरद्य मदर्थमिति चिन्तये ।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥

3.298.88

पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥

3.298.89

त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥

3.298.90

वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठिः ।
त्वयि पिण्डश्च कीर्तिश्च सन्तानश्चावयोरिति ॥

3.298.91

माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥

3.298.92

निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम ।
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥

3.298.93

अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः ।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥

3.298.94

व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥

3.298.95

नात्मानमनुशोचामि यथाऽहम्पितरं शुभे ।
भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम् ॥

3.298.96

मत्कृते न हि तावद्य सन्तापं परमेष्यतः ।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥

3.298.97

तयोः प्रियं मे कर्व्यमिति जीवामि चाप्यहम् । परमं दैवतं तौ मे पूजनीयौ सदा मया ।
तयोस्तु मे सदाऽस्त्येवं व्रतमेतत्पुरातनम् ॥
मार्कण्डेय उवाच ।

3.298.98

एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः ।
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह ॥

3.298.99

ततोऽब्रवीत्तथा दृष्ट्वाभर्तारं शोककर्शितम् ।
प्रमृज्याश्रूणि पाणिभ्यां सावित्री धर्मचारिणी ॥

3.298.100

यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि ।
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी ॥

3.298.101

न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम् ।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥
सत्यवानुवाच ।

3.298.102

कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।
अपिनाम गुरू तौ हि पश्येयं ध्रियमाणकौ ॥

3.298.103

पुरा मातुः पितुर्वाऽपियदि पश्यामि विप्रियम् ।
न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥

3.298.104

यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि ।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात् ॥
मार्कण्डेय उवाच ।

3.298.105

सावित्री तत उत्थाय केशान्सम्म्य भामिनी ।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥

3.298.106

उत्ताय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे ॥

3.298.107

तमुवाचाथसावित्री श्वः फलानि हरिष्यसि ।
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम् ॥

3.298.108

कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत् ॥

3.298.109

वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च । दक्षिणएन परिष्वज्य जगाम गजगामिनी ॥ सत्यवानुवाच ।

3.298.110

अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥

3.298.111

आगतौ स्वः पथा येन फलान्यवचितानि च ।
यथागतं शुभे गच्छ पन्थानं मा विचारय ॥

3.298.112

पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा ।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥

3.298.113

स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितरावुभौ । ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc