भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.278

3.278.1

उक्तं भगवता जन्म रामादीनां पृथक्पृथक् ।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥

3.278.2

कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।
प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी ॥
मार्कण्डेय उवाच ।

3.278.3

जातपुत्रो दशरथः प्रीतिमानभवन्नृप ।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता ॥

3.278.4

क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः ॥

3.278.5

चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव ।
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी ॥

3.278.6

ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।
मनोहरतया धीमान्पितुर्हृदयनन्दनः ॥

3.278.7

ततः स राजा मतिमान्मत्वाऽत्मानं वयोधिकम् ।
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः ॥

3.278.8

अभिषेकाय रामस्य यावैराज्येन भारत ।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥

3.278.9

लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।
कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम् ॥

3.278.10

दीप्यमानं श्रिया वीरं शक्रादनवरं बले ।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥

3.278.11

सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥

3.278.12

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥

3.278.13

पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।
सन्दृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम् ॥

3.278.14

चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥

3.278.15

अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।
सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥

3.278.16

श्व एवपुष्यो भविता यत्ररामः सुतो मया ।
यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः ॥

3.278.17

इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥

3.278.18

अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।
आशीविषस्त्वां सन्क्रुद्धश्छन्नो दशति दुर्भगे ॥

3.278.19

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥

3.278.20

सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।
वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम् ॥

3.278.21

वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत् ॥

3.278.22

सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान् । उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व सन्कटात् ।
तदद्य कुरु सत्यं मे वरं वरद भूपते ॥
राजोवाच ।

3.278.23

वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।
अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां ॥

3.278.24

धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः ।
ब्राह्मणस्वादिहान्यत्रयत्किञ्चिद्वित्तमस्ति मे ॥

3.278.25

पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता ।
यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं ॥

3.278.26

सातद्वचनमाज्ञाय परिगृह्य नराधिपम् ।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥

3.278.27

आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥

3.278.28

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः ॥

3.278.29

स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम् ।
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह ॥

3.278.30

ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥

3.278.31

तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा ।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥

3.278.32

ततो वनं गतेरामे राजा दशरथस्तदा ।
समयुज्यत देहस्य कालपर्यायधर्मणा ॥

3.278.33

रामं तु गतमाज्ञाय राजानं च तथागतम् ।
अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत् ॥

3.278.34

गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।
गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम् ॥

3.278.35

तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।
पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया ॥

3.278.36

अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥

3.278.37

स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ ।
अन्वयाद्धातरं रामं विनिवर्तनलालसः ॥

3.278.38

कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥

3.278.39

वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥

3.278.40

ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।
तापसानामलन्कारं धारयन्तं धनुर्धरम् ॥

3.278.41

उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम् ।
शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान् ॥

3.278.42

नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् ॥

3.278.43

स तस्य वचनं श्रुत्वा रामः परमदुःखितः ।
चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् ॥

3.278.44

अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम् । पादुके मे भविष्येते राज्यगोप्त्र्यौ परन्तप ।
एवमस्त्विति तं प्राह भरतः प्रणतस्तदा ॥

3.278.45

विसर्जितः स रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥

3.278.46

रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥

3.278.47

सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥

3.278.48

वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥

3.278.49

रक्षार्थं तापसानां तु राघवो धर्मवत्सलः ।
चतुर्दशसहस्राणि जघान भुवि राक्षसान् ॥

3.278.50

दूषणं च स्वरं चैवनिहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥

3.278.51

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥

3.278.52

ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता ।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥

3.278.53

तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः ।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥

3.278.54

स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।
केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च ॥

3.278.55

कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते ।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम् ॥

3.278.56

आशीविषं घोरतरं पादेन स्पृशतीह कः ।
सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति ॥

3.278.57

इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः ।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥

3.278.58

तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥

3.278.59

ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः ।
रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत् ॥

3.278.60

स निश्चित्यततः कृत्यं सागरं लवणाकरम् ।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥

3.278.61

त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥

3.278.62

तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।
दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः ॥

3.278.63

तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः । पुरा रामभयादेव तापसं प्रियजीवितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc