भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.277

3.277.1

ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा ।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥
अग्निरुवाच ।

3.277.2

योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः ।
अवध्यो वरदानेन कृतो भगवता पुरा ॥

3.277.3

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ॥
ब्रह्मोवाच ।

3.277.4

न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।
विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः ॥

3.277.5

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।
विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति ॥
मार्कण्डेय उवाच ।

3.277.6

पितामहस्ततस्तेषां सन्निधौ शक्रमब्रवीत् ।
सर्वैर्देवगणैः सार्धं सम्भव त्वं महीतले ॥

3.277.7

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥

3.277.8

ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः ॥

3.277.9

ततो भागानुभागेन देवगन्धर्वदानवाः ।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा ॥

3.277.10

अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः । ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः ।
चारणाश्चासृजन्घोरान्वानरान्वनचारिणः ॥

3.277.11

यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम् ।
अजायन्त समास्तेन तस्य तस्य सुतास्तदा ॥

3.277.12

तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः ।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये ॥

3.277.13

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥

3.277.14

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥

3.277.15

तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः ॥

3.277.16

वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा ।
कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः ॥

3.277.17

नागायुतसमप्राणा वायुवेगसमा जवे ।
यथेच्छविनिपाताश्च केचिदत्र वनौकसः ॥

3.277.18

एवं विधाय तत्सर्वं भगवाँल्लोकभावनः ।
मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा ॥

3.277.19

सा तद्वच समाज्ञाय तथा चक्रे मनोजवा । इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc