भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.246

3.246.1

ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥

3.246.2

चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः ।
रणे सन्न्यपतन्राजंस्तदद्भुतमिवाभवत् ॥

3.246.3

यथा कर्णस्य च रथो धार्तराष्ट्रस् चोभयोः ।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे ॥

3.246.4

तान्समापततो राजन्गधर्वाञ्छतशो रणे ।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥

3.246.5

ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥

3.246.6

अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे ॥

3.246.7

सहस्राणां सहस्राणि प्राहिणोद्यमसादनम् ।
अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥

3.246.8

तथा भीमो महेष्वासः संयुगे बलिनांवरः ।
गन्धर्वाञ्शतशो राजञ्चघान निशितैः शरैः ॥

3.246.9

माद्रीपुत्रावपि तथा युध्मानौ बलोत्कटौ ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥

3.246.10

तेवध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः ।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥

3.246.11

सतानुत्पतितानदृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
महता शरजालेन समन्तात्पर्यवारयत् ॥

3.246.12

ते ब्रद्धाः शरजालेन शकुन्ता इव पञ्जरे ववर्पुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥

3.246.13

गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ॥

3.246.14

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥

3.246.15

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥

3.246.16

तेषां तु शरवर्षाणि सव्यसाची परन्तपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥

3.246.17

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः ॥

3.246.18

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन्परम् ॥

3.246.19

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥

3.246.20

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत ।
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत् ॥

3.246.21

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥

3.246.22

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययाऽत्मानं योधयामास पाण्डवं ॥

3.246.23

अस्त्राणै तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः ।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः ॥

3.246.24

स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना ।
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा ॥

3.246.25

अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥

3.246.26

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेषं समाश्रित्य बहुरूपो धनञ्जयः ॥

3.246.27

रस वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
ततोऽस्य दर्शयामास तदाऽत्मानं प्रियः सखा ॥

3.246.28

चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् ।
चित्रसेनमथालक्ष्य सखायमिति विस्मितः ॥

3.246.29

सञ्जहारास्त्रमथं तत्प्रसृष्टं पाण्डवर्षभः ॥

3.246.30

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् ।
सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥

3.246.31

चित्रसेनश्च भीमश्च सव्यसाची यमावपि । पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc