भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.245

3.245.1

युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः ।
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥

3.245.2

अभेद्यानि ततः सर्वे समनह्यन्त भारत । जाम्बूनदविचित्राणि कवचानि महारथाः ।
आयुधानि च दिव्यानि विविधानि समादधुः ॥

3.245.3

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः ।
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः ॥

3.245.4

तान्रथान्साधुसम्पन्नान्संयुक्ताञ्जवनैर्हयैः ।
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥

3.245.5

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः ।
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥

3.245.6

जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः ।
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥

3.245.7

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः ।
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥

3.245.8

तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान् ।
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥

3.245.9

राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः ।
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ॥

3.245.10

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः ।
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥

3.245.11

ततस्तान्युधि दुर्धर्षान्सव्यसाची परन्तपः ।
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥

3.245.12

नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् ।
परदाराभिमर्शश्च मानुषैश्च समागमः ॥

3.245.13

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् ।
दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात् ॥

3.245.14

त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना ।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥

3.245.15

एकस्यैव वयं तात कुर्याम वचनं भुवि ।
यस्य शासनमाज्ञाय चरामो विगतज्वराः ॥

3.245.16

तेनैकेन रकयथादिष्टं तथा वर्ताम भारत ।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥

3.245.17

एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनञ्जयः ।
गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत ॥

3.245.18

यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान् ।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥

3.245.19

एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः ।
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥

3.245.20

तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः ।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥

3.245.21

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् । बभूव भीमवेगानां च भात ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc