भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.243

3.243.1

गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥

3.243.2

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः ॥

3.243.3

तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण सोऽभ्यवर्षदरिन्दमः ॥

3.243.4

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥

3.243.5

युगमीषां वरूथं च तथैव ध्वजसारथी ।
अश्वांस्त्रिवेणुमक्षं च तिलशो व्यधमञ्छरैः ॥

3.243.6

दुर्योधनं चित्रसनो विरथं पतितं भुवि ।
अभिद्रुस्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥

3.243.7

तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् ।
आरोप्यस महाबाहुश्चित्रसेनो ननाद ह ॥

3.243.8

तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥

3.243.9

विधिशतिं चित्रसेनमादायान्ये विदुद्रुवुः ।
विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥

3.243.10

सेनास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥

3.243.11

शकटापणवेशाश्च यानयुग्यं च सर्वशः ।
शरणं पाण्डवाञ्जग्मुर्हियमाणे महीपतौ ॥
सैनिका ऊचुः ।

3.243.12

प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः ।
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥

3.243.13

दुःशासनो दुर्विषहो दुर्मुखो दुर्मुखो दुर्जयस्तथा ।
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥

3.243.14

इतिदुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन् ॥

3.243.15

तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥

3.243.16

महता हि प्रयत्नेन सन्नह्य गजवाजिभिः ।
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ॥

3.243.17

अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥

3.243.18

दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेविनः ।
दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः ॥

3.243.19

द्वेष्टारमन्ये क्लीवस्य घातयन्तीति नः श्रुतम् ।
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ॥

3.243.20

दिष्ट्या लोके पुमानस्ति कश्चिदस्मन्प्रिये स्थितः ।
येनास्माकं हृतो भार आसीनानां सुखावहः ॥

3.243.21

शीतवातातपसहांस्तपसा चैव कर्शितान् ।
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥

3.243.22

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम् ॥

3.243.23

अधर्मो हि कृतस्तेन येनैतदुपलक्षितम् ।
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः ॥

3.243.24

एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम् । न कालः परुषस्यायमिति राजाऽभ्यभाषत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc