भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.242

3.242.1

ततस्ते सहिताः सर्वे दुर्याधनमुपागमन् ।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥

3.242.2

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥

3.242.3

शासतैनानधर्मज्ञान्मम विप्रियकारिणः । यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः ।
वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशं ॥

3.242.4

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः ॥

3.242.5

ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात् ।
सिंहनादेन महता पूरयन्तो दिशो दश ॥

3.242.6

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।
साम्नैव रतत्र विक्रान्ता मा साहसमिति प्रभो ॥

3.242.7

ते वार्यमाणा गन्धर्वैः साम्नैव वसुधायिप ।
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥

3.242.8

यदि वाता न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ।
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥

3.242.9

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति ।
अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ॥

3.242.10

अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत ।
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥

3.242.11

तान्दृष्ट्वाऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान् ।
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ॥

3.242.12

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
राधेयस्तु तदा वीरो नासीत्तत्रपराङ्मुखः ॥

3.242.13

आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥

3.242.14

क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽयसैः ।
गन्धर्वाञ्शतशोऽभिघ्नँल्लघुत्वात्सूतनन्दनः ॥

3.242.15

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः ।
क्षणएन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥

3.242.16

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता ।
भूय एवाभ्यवर्तन्त शततशोऽथ सहस्रशः ॥

3.242.17

गन्धर्वभूता पृथिवी क्षणेन समपद्यत ।
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥

3.242.18

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ।
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःखनैः ॥

3.242.19

सैन्यमायोधितं दृष्ट्वाकर्णो राजन्न मृष्यत ॥

3.242.20

महता रथसङ्घेन रथचारेण चाप्युत । वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन् ।
ततः सन्न्यपतन्सर्वे गन्धर्वाः कौरवं प्रति ॥

3.242.21

तदा सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
ततस्ते मृदवोऽभूवनगन्धर्वाः शरपीडिताः ॥

3.242.22

उच्चुक्रुशुश्च कौरव्यागन्धर्वान्प्रेक्ष्य पीडितान् ॥

3.242.23

गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः ।
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥

3.242.24

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् ।
वियत्सञ्छादयामास न ववौ तत्र मारुतः ॥

3.242.25

हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत ।
हयारोहाः सह हयै रथैश्च रथिनस्तदा ॥

3.242.26

पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः ।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥

3.242.27

एकैको हि तदा योधो धार्तारष्ट्रस्य भारत ।
पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि ॥

3.242.28

ततः सम्पीड्यमानास्ते बलेन महता तदा ।
प्राद्रवन्त रणे भीता यत्रराजा युधिष्ठिरः ॥

3.242.29

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥

3.242.30

दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः ।
गन्धर्वान्योधयामासुः समरे भृशविक्षताः ॥

3.242.31

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।
जिघांसमानाः संरब्धाः कर्णमभ्यद्रवत्रणे ॥

3.242.32

असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः ।
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥

3.242.33

अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् ।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥

3.242.34

अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे । अन्ये सञ्चूर्णयामासुश्छत्रे चाक्षौ तथा परे ॥

3.242.35

गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥ ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् ।

3.242.36

अंसावलम्बितधनुर्धावमानो महाबलः । विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc