भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.240

3.240.1

धृतराष्ट्रं ततः सर्वेददृशुर्जनमेजय ।
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत ॥

3.240.2

ततस्तैर्विहितः पूर्वं सन्गवो नाम वल्लवः ।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥

3.240.3

अनन्तरं च राधेयः शकुनिश्च विशाम्पते ।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥

3.240.4

रमणीयेषु देशेषु घोषाः सम्प्रति कौरव ।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम् ॥

3.240.5

मृगया चोचिता राजन्नस्मिन्काले सुतस्यते ।
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥
धृतराष्ट्र उवाच ।

3.240.6

मृगया शोभना तात गवां हि समवेक्षणम् ।
विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ॥

3.240.7

ते तु तत्रनरव्याघ्राः समीप इति नः श्रुतम् ।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥

3.240.8

छद्मना निर्जितास्ते तु कर्शिताश्च महावने ।
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥

3.240.9

धर्मराजो न सन्क्रुद्ध्येद्भीमसेनस्त्वमर्षणः ।
यज्ञसेनस् दुहिता तेज एवतु केवलम् ॥

3.240.10

यूयञ्चाप्यपराध्येयुर्दर्पमोहसमन्विताः ।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥

3.240.11

अथवा सायुधावीरा मन्युनाऽभिपरिप्लुताः ।
सहिता बद्धनिस्त्रिशा दहेयुः शस्त्रतेजसा ॥

3.240.12

अथ यूयं बहुत्वात्तान्नारभध्वं कथञ्चन ।
अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम् ॥

3.240.13

उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः ।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनं ॥

3.240.14

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।
किं पुनः सकृतास्त्रोऽद्य न हन्याद्वो महारथः ॥

3.240.15

अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।
उद्विग्रवासा विस्रब्धा दुःखं तत्रगमिष्यथ ॥

3.240.16

अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।
तदबुद्धिकृतन्कर्म दोषमुत्पादयेच्च वः ॥

3.240.17

तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः ।
न स्वयं तत्रगमनं रोचये तव भारत ॥
शकुनिरुवाच ।

3.240.18

धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।
तेन द्वादशवर्षाणि वस्तव्यानीति भारत ॥

3.240.19

अनुवृत्ताश्च रतं सर्वे पाण्डवा धर्मचारिणः ।
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति ॥

3.240.20

मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्सनम् ॥

3.240.21

न चानार्यसमाचारः कश्चित्तत्र भविष्यति ।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥
वैशम्पायन उवाच ।

3.240.22

एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥

3.240.23

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥

3.240.24

दुःशासनेन च तथा सौबलेन च धीमता ।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥

3.240.25

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।
पौराश्चानुययुः सर्वेसहदारा वनं च तत् ॥

3.240.26

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥

3.240.27

शकटापणवेशाश्च वणिजो वन्दिनस्तथा ।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥

3.240.28

ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।
प्रावृषीव महावायोरुत्थितस्य विशाम्पते ॥

3.240.29

गव्यूतिमात्रेन्यवसद्राजा दुर्योधनस्तदा । प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc