भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.239

3.239.1

कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः ।
हृष्टो भूत्वापुनर्दीनो राधेयमिदमब्रवीत् ॥

3.239.2

ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम् ।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्रपाण्डवाः ॥

3.239.3

परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः ।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥

3.239.4

अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥

3.239.5

न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् ।
उन्माथनमृते तेषां वनस्थानामपि द्विषाम् ॥

3.239.6

जानासिहि यथा क्षत्ता द्यूतकाल उपस्थिते ।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा ॥

3.239.7

तानिसर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् ।
विचिन्त्य निश्चय गच्छे गमनायेतराय वा ॥

3.239.8

ममापि हिमहान्हर्षो यदहं भीमफल्गुनौ ।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥

3.239.9

न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम् ।
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥

3.239.10

किन्नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् ।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥

3.239.11

यदि मां दर्मराजश्च भीमसेनश्च पाण्डवः ।
युक्तं रपरमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥

3.239.12

उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।
यथाचाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥

3.239.13

स सौबलेन सहितस्तथा दुःशासनेन च ।
उपायं पश्य रनिपुणं येन गच्छेम तद्वनम् ॥

3.239.14

अहमप्यनुगच्छामि गमनायेतराय च ।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥

3.239.15

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥

3.239.16

ततो भीष्मस्य राज्ञश्च निशम्य रगमनं प्रति ।
व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥

3.239.17

तथेत्युक्त्वा तु ते सर्वेग्मुरावसथान्प्रति ।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥

3.239.18

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।
उपायः परिदृष्टोऽयं तं निबोधजनेश्वर ॥

3.239.19

घोषा द्वैतवने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामो न संशयः ॥

3.239.20

उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते ।
एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति ॥

3.239.21

तथा कथयमानौ तु घोषयात्राविनिश्चयम् ।
गान्धारराजः शकुनिरित्युवाच हसन्निव ॥

3.239.22

उपायोऽयम्मया दृष्टो गमनाय निरामयः ।
अनुज्ञास्यतिनो राजा चोदयिष्यति चाप्युत ॥

3.239.23

घोषा द्वैतव्रने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामः सरः प्रति ॥

3.239.24

ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः । तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc