भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.230

3.230.1

श्रिया जुष्टं महासेनं देवसेनापतीकृतम् ।
सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन् ॥

3.230.2

ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः ।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥

3.230.3

वयं पुत्र परित्यक्तां भर्तृभिर्देवसम्मितैः ।
अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः ॥

3.230.4

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।
तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥

3.230.5

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥
स्कन्द उवाच ।

3.230.6

मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।
यद्वापीच्छत तत्सर्वं सम्भविष्यति वस्तथा ॥
मार्कण्डेय उवाच ।

3.230.7

विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत् ।
उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः ॥

3.230.8

अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा ।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥

3.230.9

तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥

3.230.10

धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः ।
रोहिणो ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥

3.230.11

एवमुक्ते तु शक्रेण त्रिविदं कृत्तिका गताः ।
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥

3.230.12

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥
स्कन्द उवाच ।

3.230.13

एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥
मार्कण्डेय उवाच ।

3.230.14

अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् । वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥

3.230.15

तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत् । मातरो हि भवत्यो मे भवतीनामहं सुतः ।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥
मातर ऊचुः ।

3.230.16

यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत् ॥

3.230.17

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥
स्कन्द उवाच ।

3.230.18

वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम् ।
अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा ॥
मातर ऊचुः ।

3.230.19

इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥
स्कन्द उवाच ।

3.230.20

प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।
परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः ॥
मातर ऊचुः ।

3.230.21

परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।
त्वया नो रोचते स्कन्द सहवासश्चिरम्प्रभो ॥
स्कन्द उवाच ।

3.230.22

यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥

3.230.23

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः ॥
मार्कण्डेय उवाच ।

3.230.24

ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः ।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥

3.230.25

अपतत्सहसा भूमौ विसञ्ज्ञोऽथ क्षुधार्दितः ।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥

3.230.26

स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः ।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ॥

3.230.27

मातॄणां राक्षसम्प्राहुस्तं विद्यात्पूतनाग्रहम् ।
कष्टा दारुणरूपेण घोररूपा निशाचरी ॥

3.230.28

पशाची रदारुणाकारा कथ्यते शीतपूतना ।
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥

3.230.29

अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।
सोऽपि बालान्महागोरो बाधते वै महाग्रहः ॥

3.230.30

दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ॥

3.230.31

कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसम्भवाः ।
तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः ॥

3.230.32

तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः ।
आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः ॥

3.230.33

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।
शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि ॥

3.230.34

सरमा नाम या माता शुनां देवी जनाधिप ।
साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि ॥

3.230.35

पादपानां च या माता करञ्जनिलया हि सा ।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ॥

3.230.36

करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ।
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ॥

3.230.37

द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ॥

3.230.38

भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ।
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ॥

3.230.39

ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ।
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ॥

3.230.40

उपविष्टं ततो गर्भं कथयनति मनीषिणः ।
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ॥

3.230.41

लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ।
पुरुषे तु यथा रुद्रस्तथाऽर्या प्रमदास्वपि ॥

3.230.42

आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ।
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ॥

3.230.43

यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः ।
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैवये ग्रहाः ॥

3.230.44

सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः । तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् ।
बलिकार्गेपहाराश् स्कन्दस्येज्या विशेषतः ॥

3.230.45

एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् ।
आयुर्दीर्घं च राजेनद्रसम्यक्पूजानमस्कृताः ॥

3.230.46

ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥

3.230.47

यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा ।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥

3.230.48

आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।
उन्माद्यतिस तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥

3.230.49

अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥

3.230.50

उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥

3.230.51

गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि ।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥

3.230.52

अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति ।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ॥

3.230.53

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।
उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥

3.230.54

यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः ।
उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥

3.230.55

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम् ॥

3.230.56

कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः ।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥

3.230.57

यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।
अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा ॥

3.230.58

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।
आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः ॥

3.230.59

इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः । न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc