भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.229

3.229.1

ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् । काकी च हलिमा चैव माता चाथ हली तथा ।
आर्या बाला च धात्री च सप्तैता शिशुमातरः ॥

3.229.2

एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः ।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयन्करः ॥

3.229.3

एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः ।
छागवक्रेण सहितो नवमः परिकीर्त्यते ॥

3.229.4

षष्ठं छागमयं वक्रं स्कन्दस्यैवेति विद्धि तम् ।
षट््शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥

3.229.5

षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते ।
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥

3.229.6

इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् ।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥

3.229.7

उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम् ।
हिरण्यचूडमुकुटं हिरण्यान्क्षं महाप्रभम् ॥

3.229.8

लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् ।
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ॥

3.229.9

ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् ।
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥

3.229.10

श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा ।
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥

3.229.11

अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ॥

3.229.12

इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥

3.229.13

हिरण्यवर्ण भद्रं ते लोकानां शन्करो भव ।
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥

3.229.14

अभयञ्च पुनर्दत्तं त्वयैवैषां सुरोत्तम ।
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयन्करः ॥
स्कन्द उवाच ।

3.229.15

किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः ।
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥
ऋषय ऊचुः ।

3.229.16

इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम् ।
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः ॥

3.229.17

दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति ।
अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥

3.229.18

असूर्ये च भवेत्सूर्यस्तथाऽचनद््रे च चन्द्रमाः ।
भवत्यग्निश्च वायुश्च पृथिव्यापश्च स्वं तथा ॥

3.229.19

एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् ।
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व न ॥
शक्र उवाच ।

3.229.20

भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः ।
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥
स्कन्द उवाच ।

3.229.21

शाधि त्वमेव त्रैलोक्यमव्याग्रे निजये रतः ।
अहं ते किन्करः शक्र न ममेन्द्रत्वमीप्सितम् ॥
शक्र उवाच ।

3.229.22

बलन्तवाद्भुतं वीर त्वं देवानामरीञ्जहि ।
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः ॥

3.229.23

इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम् ।
त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम ॥

3.229.24

आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ।
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ॥

3.229.25

द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ।
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ॥

3.229.26

तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि ।
तस्मादिन्द्रो भवानेव भविता मा विचारय ॥
स्कन्द उवाच ।

3.229.27

त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ।
करोमि किं च तेशक्र शासनात्तद्ब्रवीहि मे ॥
इन्द्र उवाच ।

3.229.28

अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ।
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥

3.229.29

यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ।
अभिषिच्यस्व देवानां सैनापत्ये महाबल ॥
स्कन्द उवाच ।

3.229.30

दानवानां विनाशाय देवानामर्थसिद्धये ।
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम् ॥
मार्कण्डेय उवाच ।

3.229.31

सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह ।
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥

3.229.32

तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत ।
तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥

3.229.33

विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी ।
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥

3.229.34

आगम्य मनुजव्याघ्र सह देव्या परन्तप ।
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥

3.229.35

रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः ।
कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः ॥

3.229.36

रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ।
पावकस्येनद्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥

3.229.37

पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वेदिवौकसः ।
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम् ॥

3.229.38

अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः ।
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥

3.229.39

रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा ।
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥

3.229.40

अरजे वाससी रक्ते वसानः पावकात्मजः ।
भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान् ॥

3.229.41

कुक्कुटश्चाग्निना दत्तस्तस् केतुरलन्कृतः ।
रथे समुच्छितो भाति कालाग्निरव लोहितः ॥

3.229.42

या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा ।
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी ॥

3.229.43

विवेश कवचं चास्य शरीरं सहजं तथा ।
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥

3.229.44

शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः ।
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम् ॥

3.229.45

निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् ।
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥

3.229.46

एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलन्कृतः ।
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥

3.229.47

इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि ।
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥

3.229.48

एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलन्कृतः । [सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा.]
क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः ॥

3.229.49

अभिषिक्तं महासेनमपश्यन्त दिवौकसः ।
विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा ॥

3.229.50

अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः ।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः ॥

3.229.51

ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः ।
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि ॥

3.229.52

शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा ।
सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥

3.229.53

अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् ।
सञ्चिन्त्य त्वानयामास देवसेनां ह्यलन्कृताम् ॥

3.229.54

स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम ।
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ॥

3.229.55

तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् ।
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा ॥

3.229.56

एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि ।
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ॥

3.229.57

एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः ।
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् ॥

3.229.58

सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम् ।
इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते ॥

3.229.59

यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया ।
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥

3.229.60

श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता । षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc